________________
श्री जगडूशाह-चरित्रम्
प्रीतिमत्याः प्राणेश्वरे प्रतिकूलविधिना सहसापहृते तत्र भद्रेश्वरे जगडूश्रेष्ठिना सपरिवारेण सत्रा सकलासु जनतासु कश्चिदभूतपूर्व एव हाहाकारोऽजनिष्ट, असह्यवैधव्यदुःखाकुला प्रीतिमती तु दिवानिशं शोकसन्तापेन सन्तहुँ लग्ना। अजहाच्च तद्दिनादशनपानशयनोपवेशन-परस्परालापान्। एवं दिनानुदिनं शोचन्ती शरीरे च काश्यं नयन्ती विमनसां प्रीतिमतीमुदीक्षमाणा आलयः क्रमशो जगत्स्थित्या तामाश्वासयितुं प्रारेभिरे तथाहि
सरस्वती - अयि प्रियतमे सखि! शोकं जहीहि, जगदिदमशेषं क्षणभङ्गुरं जानीहि, केवलं त्वमेवेदृशं दुःखं न लेभिषे, भूयस्यस्त्वदन्या अपि तडिद्गौरवर्णास्तारुण्यपूर्णा युवतयः प्राक्तनकर्मयोगात्सञ्जातवैधव्या जगतीह सम्प्रति वर्तन्ते। सततरुदितोच्छूननयनाया भवत्याः किसलयादप्यधिकपेलवमिदं गात्रं विच्छायं भवनितरां शुष्यतितमाम्, तत्किमिति न पश्यसि? विदुष्या अतिधीरमत्यास्तव तदर्थमतिशोको नो घटते। गता(श्च मूढतमा एव प्राणिनः शोचन्ति। शोकेन गतं वस्तु केनापि नालम्भि। नीतिवाक्यं स्मर
"जातस्य हि ध्रुवं मृत्युः, प्राणिनां सह जायते।" अवश्यं भाविनो भावा, भवन्ति महतामपि।"
एवं तर्हि को नाम विद्वान् मिथ्यात्मके तत्र परिखिद्येत। यदिदं सोढुमशक्यं ते दुःखं विधिरददत, तच्चैतस्मिञ्जन्मन्यप्रतीकार्यमेव विद्धि, इह हि कर्मपारतन्त्र्यमिताः प्राणिनस्तदनुसार्येव शुभमशुभं वा फलमधिगच्छन्ति। तदुक्तं नीती-प्रारब्धकर्मणां भोगादेव क्षयः,
ललाटे लिखितं यत्तु, षष्ठीजागरवासरे।। 1. सुकोमलम्। 2. लौकिक मान्यता
83