________________
श्री जगडूशाह-चरित्रम् पानीयमपि नाऽमिलत्। केवलं पानीयं पानीयमिति जल्पन् कलेवरमिदमजहात्। नैतावदेव जातम्, आजन्म सहचरीभूतो बलभद्रनामा बान्धवोऽप्यन्तसमये तदर्थजलाहरणव्याजेन प्रतिकूलतां नीतेन विधिना व्ययोजि। हन्त! महीयान् खेदविषयः। यत् त्रिभुवनपतेर्विष्णोरपि प्राणप्रयाणवेलायां नैकोऽपि नाऽऽसीत्पार्थे। अहो! त्रैखण्डिकां श्रियं बिभ्रतो यदीदृशी दशाऽध्यजायत। तर्हि साधारणो जनिमान् प्रतिकूलतामुपनीते विधौ तादृशीं तदधिकां दशां नयेत्तत्र किमाश्चर्यम्? एषा तु मानुषीस्थितिर्दर्शिता। ये खलु सर्वर्द्धिमन्तो लेखास्तदधिपतयो वा विधिप्रातिकूल्ये स्वेच्छया किमप्याचरितुं नैव किलेशते। अमरेन्द्रा हि सदैव स्वेच्छायत्तं भोगं भुञ्जाना दिवानिशं वैषयिकं सुखमेवानुभवन्ति। सत्यपि सागरोपमे निजायुषि यदैति प्राणप्रयाणवेला तदा तेऽपि मा इव हा! हा! इति कुर्वन्तो म्रियन्त एव, निर्जरा अपि निजां दैवीं सम्पत्तिम्, लोकोत्तरमनुपमं भोगम्, कामिनीनां नवयौवनानां शाश्वतिकं नैरन्तरं विलासम्; चेतोहरं नवयौवनमिदं शरीरं च जात्वपि हातुं नो कामयन्ते। यदेते सुन्दरं शरीरमविनश्वरमिति मन्वाना मोमुह्यन्ते, याभिरमरीभिर्भव्यनव्यतारुण्यलोकातीतलावण्यवतीभिः सहात्मानमपि विस्मरन्तः सुखेन यावज्जीवं दिनानि गमयन्ति, तेष्वेतेषु पश्यत्सु क्षणादेव क्षीणतां याते स्वायुषि देवेन्द्रानपि सहसैव दुरतिक्रमः कालो ग्रसत्येव। क्षणमात्रमपि स्थातुं नो शक्नुवन्ति। दुर्ध्यानेन तथा म्रियन्ते यथा पापिनः किलाधोगतिं प्राप्नुवन्ति। क्षणेनैव सकलमिदं ब्रह्माण्डं मृद्भाण्डमिव चूर्णयितुं शक्तिमन्तोऽपि सुरेन्द्रा नूनमिदं दैवं पराभवितुं नाहन्ति, तेऽपि तदग्रेऽशक्ता एव तिष्ठन्ति। तर्हि मानवाः पामरा निसर्गतो शक्तिविकलाः कथङ्कारं तत्प्रतिकूलं विदधीरन्। 1. देवाः। 2. इन्द्राः।
82