SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ श्री जगडूशाह-चरित्रम् किञ्च यत्र नगयां कृतैक- 'राज्यश्रवणेन कलिराजस्य हृदये कामं शल्यमभूत्, एवं दिवानिशं देवमन्दिरेषु च जाजायमानघण्टाध्वनिभिराधिरजायत। अपि च यत्र निसर्गतः परिपीडितेभ्योऽतिदीनजनेभ्योऽर्थिभ्यो दातुं दयां बिभ्रद्रत्नाकरस्तटे तरङ्गात्मकैः करैरेव रत्नानि विस्तारितवानिव भाति। यत्र च वणिजामापणे प्रसारितं सुवर्णराशिं रत्नराशिं चालोकमाना द्रष्टारः क्रेतारं च सुमेरोः समुद्राच्च समागतां सारलक्ष्मी ध्रुवं मेनिरे। निशासु सौधोपरिसंस्थितानां मृगीदृशां चारुगीतं समाकर्णयन्तमात्ममृगं गमनाय शशाङ्कः कृच्छ्रा त्वरयाञ्चक्रे। निदाघकालेऽपि यत्र चन्द्रावलोकनाद् गलितामृताम्बुजिनमन्दिरसाम्यताम्। एतद् भव्यमन्दिरं पुरः पुरस्ताच्चतुर्विंशतिहस्तपरिमितायतं द्वाचत्वारिंशद्धस्तपरिमितलम्बमतिविशालचत्वरस्य पश्चिमे भागे विलसतितराम्। एतन्मध्ये भगवतः श्रीमहावीरप्रभोर्मूर्ती राजते, प्रतिष्ठा ह्यस्या द्वाविंशत्यधिकषष्ठे(६२२) संवत्सरे जज्ञे। पुनरेतच्चतुस्त्रिंशाधिकैकादशशततमे(११३४) विक्रमाब्दे वैशाखीपूर्णिमायां श्रीमालवंशोद्भवाः श्वेताम्बरजैना उददीधरन्। एतच्चैत्यसद्भावादेवेदं नगरं पवित्र तीर्थभूतममानि।' १. इतोऽन्यदपि दुदाशाहीय-वापिका 'सेलोरवाव' इति नाम्ना प्रसिद्धिं गता नगरात्प्राच्यामद्यापि ध्वस्तप्रायकियभागा संलक्ष्यते। किञ्चेशानकोणे पुरातनं कुण्डमस्ति। यस्योद्धृती रावश्रीलखपतस्य शासनकाले केनापि भाटियाख्येन चक्रे। इतश्च पश्चिमे आशापूरीमातुर्मन्दिरं विद्यते स्म, परमिदानी तदीयं भग्नप्रायं मण्डपमात्रमवशिष्यते, तस्यैकस्य स्तम्भोपरि संवत् ११५८ दृश्यते। ग्रामात्पश्चिमे च साकरी नाम्नी नदी वहति। वायव्ये कोणे च फूलसर नाम्ना प्रसिद्धोऽपि तटाकोऽस्तव्यस्तदशायां संदृश्यते। विक्रमीयत्रयोदशशताब्द्या मध्यकालस्य पश्चाभागे कच्छदेशीयराजधानी भद्रेश्वरे किलासीत्। राजा तदानीं भीमसिंह नामा पडिहार आसीत्। तत्परोक्षे च गुर्जराधिपतेर्वीरधवलस्याधिकारस्तत्राप्यभूत्। एतावन्तं कालं भद्रेश्वरस्य स्थितिः परितः समेधमानैवाऽऽसीत्, एतच्च वर्तमानभद्रेश्वरात्पूर्वस्यां विशालभूम्यां चासीत्। एतस्मिन्नेव प्रशस्यतमे प्राचीनभद्रेश्वरे गुर्जराधीशप्राप्तनगर श्रेष्ठीतिपदवीकोऽगण्यश्रीपतिः पुण्यात्मा जगडूशाहः प्रादुरासीत्। १. कृतमेकं राज्यं येन तस्य जगडूकस्य, कृते सत्ययुग इवैको धर्मो राज्ये यस्य तस्येति वा। 78
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy