________________
श्री अघटकुमार-चरित्रम् भवम्। उवाच चैवम्-हन्त! एतदकृत्याचारादग्नौ प्रवेश एव श्रेयान्, अथवा विशुद्धचेतसां पुंसां यन्त्रनिपीडनेन मरणमपि वरं, न पुनर्गृहीतव्रतत्याग इति। इत्थं पश्चात्तापयतस्तस्य कुमारस्योपरि तुष्टा सैव देवी कृपालुत्वात्तदैव पुण्यकणानीव मनोरमाणि कुसुमानि ववर्ष। बभाषे च धन्योऽसि, कुमार! त्वमिवाऽपरो दृढप्रतिज्ञो विरल एवास्ति लोके। यदेवं नृपादिभिः प्रेर्यमाणो भवनपि शैल इव स्वप्रतिज्ञातान्मनागपि न चेलिथ। अतः परं ममाग्रे कोऽपि जीवबलिं मा कार्षीत्, यतश्चेयं जीवहिंसा महाघोरनरकं कर्तारं नयति, अत एनां दुर्गतिप्रतोलीमिव सर्वे लोकास्त्यजन्त्वेवेति। तदा देवीवाक्यं शृण्वन्तः सर्वे नरपतिप्रमुखा लोका देवमिव कुमारं तुष्टुवुः, जहुश्च जीवानां हिंसनम्, इष्टवैभवां प्राणिदयामङ्गीचक्रुश्च। तस्मिन्नवसरे कुमारस्तु कृपोद्भूतं महाश्चर्यमालोकमानस्तत्रैव परमात्मनि योगीव सर्वात्मना लीनो भवन्नासीत्। तदनन्तरं प्रमुदितमनसः सर्वे लोका निजनिजसदनमाययुः। तदनु स्वायुषः क्षये राजा स्वाराज्यं प्रपेदे। तत्स्थाने च गजभञ्जनकुमारो राजाऽभूत्।
अथैकदा रथयात्रायां रत्नमये रथे रोहणाद्राविव प्रचलिते सौधद्वारमुपगते सति हर्षोत्कर्षाद् भक्तिमान् राजा जगदच्य जिनेश्वरमानर्च। चिरं राज्यं कृत्वा सत्यायुः परिपूर्णे नरेन्द्रो गजभञ्जनः शुभपरिणामेन कालमुपेयिवान्। स त्वमत्र धरित्र्यामधुनाऽवतीर्णोऽसि, मुनिनिन्दाप्रभावतो नीचैर्गोत्रं तेऽभवत्। किञ्च
मुनिदानमाहात्म्यात् तवेदानीमुत्तमा भोग्यसामग्री जज्ञे, जिनेश्वराऽर्चनप्रभावेणाऽत्र जन्मनि तिरस्कृतेन्द्रराज्यमिदं राज्यमजायत। यत्तदा त्रिर्वारमुद्यतासिर्भवान् बभूवान्महिषस्य हननाय, तेन कर्मणाऽत्र भवे त्रय आपदों जज्ञिरे। परन्तु समुद्भूतकारुण्याद्यत्तदा तस्मिन्नसिमप्रहरन्नेव त्वं न्यवर्तथास्तेन ता आपदोऽपि सम्पद
73