________________
श्री अघटकुमार - चरित्रम् स्पर्द्धया गजभञ्जनकुमारं बभाषिरे - कुमार ! येन त्वया मृगपतिनेव पुरा दन्तिनां कुम्भोऽभञ्जि, भुजाबल ! तदिदानीं सकललोकसमक्षं प्रत्यक्षं दर्शय, अमुष्मिन् महिषे प्रहरतु भवान् निशितासिमेनमरम्, यत्कस्य प्रहारादेष कुष्माण्डमिव झटिति द्विधा भवतीति लोकाः पश्येयुः। तदाकर्ण्य सोऽजल्पत्-अये कुमाराः ! युष्माकमिव मामिका मतिरन्याये नोत्सहते प्रवर्तितुं मनागपि, कथं तर्हि निर्मन्तूनेताञ्जन्तून् हन्यामहम् । किञ्च नूनमेतत्प्राणिघातनं कैश्चित्प्राक्तनैरज्ञैर्धूर्त्ततरैः प्रावर्ति, जगदम्बा तु साक्षादानन्दरूपा शुद्धसत्त्वस्वरूपैषा वेदे निगदितास्ति, अनारतमेषा चराऽचरमिदं सर्वं रिरक्षत्येव, जात्वपि जीवमेनं जननीपुत्रमिव सा त्रिभुवनजननी नो जिघांसति, अतो जीवहिंसात्मकं सावद्यं बलिं विहाय तस्यै क्षिप्राऽपूपाद्यैरेव बलिर्दीयताम्, इति कुमारोक्तमाकर्ण्य तदन्ये न्यगादिषुः- कुमार ! एवं मा वादीः। यथा लोके धेन्वर्थे तृणानि लुनतां ब्राह्मणानां दोषो न लगति, तथा देवीप्रीत्यर्थं महिषादीनिमान् पशून् घ्नताम - स्माकमपि दोषो नैव लगिष्यति, किञ्च यथा वणिजां कृते शस्यानि, तिरश्चां कृते तृणादीनि, विहितवान् विधिस्तथाऽस्मदर्थमेतान् महिषच्छागादीन् पशून् विदधे प्रजापतिरिति हेतोरेतेषां बलिदाने मनागपि दोषो न लगति। त्वमशङ्कमनाः प्रहर ? इत्थमसमञ्जसमन्योऽन्यं जल्पन्तस्ते दुरात्मानः कुक्कुराः शूकरमिव तमेकं विलक्षीकृतवन्तः ।
तदा पित्रादिमान्यजनैः प्रोत्साहितः कुमारः कृपाणमुद्यम्य तद्वधात् पुनः करुणोल्लासिचेता जवान्यवर्तत, एवं पित्राद्यैः पौनःपुन्येन हिंसां कार्यमाणोऽपि त्रिरुद्यम्याप्यसिं परमेकशोऽपि स तस्मिन् नैव प्राहरत। किन्तु - मुहुर्मुहुः पापकारिणमात्मानं धिग् धिगिति निनिन्दतमाम्। यतो- गृहीताऽभिग्रहोऽप्यहं प्रहारोद्यतोऽ1. अरं- शीघ्रम्।
72
-