________________
श्री अघटकुमार-चरित्रम् सुकृतिनो महान्तो जना अङ्गीकृतं परिपालयन्त्येव, जात्वपि न जहतितमाम्।
इति मुनेर्वाचमाकलय्य कुमारः स्माह-मुने! प्राणं सुखेन त्यक्ष्यामि परममुं गृहीतं धर्म कदापि नैव हास्यामि, यथा कश्चिद्भव्यात्मा गर्तादौ पतन्तमालम्बं प्रदाय समुद्धरति, तद्वदधुना संसारकूपे पतनहं धर्मात्मकं दृढतरमालम्बं दत्त्वा त्वया कृपयोद्धृतोऽस्मि। किञ्च मामिदानीमधर्मादेतस्मान्निवर्त्य शाश्वतसुखप्रदे न्याय्ये धर्मपथे न्ययुक्त भवानिति महानुपकारस्ते मया मन्यते। किञ्च-यदपेक्ष्यते तत्कथय, मामनुकम्पय, महत्तं किमपि सम्प्रति गृह्यताम्, क्षम्यतां च मामको मन्तुरित्यादि प्रार्थयन्तं विनीतं राजपुत्रं स मुनिरभाषिष्ट-भोः कुमार! साम्प्रतं निवृत्ताऽशेषकामस्य परब्रह्मैकचेतसो मम किमपि नापेक्ष्यते, त्वं याहि, धर्म पालय, राज्यं शाधि, इति। ___अथेदृनिरीहत्वादिगुणैस्तदीयैर्लोकाऽतीतैस्तपोभिश्च रञ्जितो राजपुत्रस्तं प्रणम्य निजगृहमाययौ। अथ वर्धमानमनोरङ्गस्तनूजं वल्लभमिवाऽनारतं जीवानुकम्पात्मकं धर्ममवन् स कुमारः सुखेन तत्राऽऽस्ते स्म। अथैकदा मासक्षपणपारणायायान्तं तं मुनिमालोक्य नत्वाऽऽत्मसदनमानीय प्रसन्नमना भक्तादियोग्यनिर्दोषमाहारं तस्मा अदात्, ततो मुनीन्द्रे तल्लात्वा निर्गते मेषादीनां यम इव महानष्टमीमहः समायातः। तस्मिन्महामहे सर्वे लोका बालेयान्महिषान् छागांश्च बहून् क्षिप्रापूपानिव प्रगुणयामासुः। तदनु पुत्रसामन्तसेनानीपरिवृतः सन्नद्धभटसेनाङ्गः क्षितिपतिस्तत्र राजवाट्यां विनिर्ययौ। तत्रागत्य गोत्रेश्वरीं नमस्कृत्य तां यथामति संस्तुत्य महद्भिरुपचारैरभ्यर्च्य तस्यै बलिं दातुं कुमारमादिशद्राजा। तदा ते सर्वे कुमारा निर्दयहृदया धृताऽसयो यमसुता इव चेष्टमानाः 1. अपराध 2. बलि योग्यान् ।
71