________________
श्री अघटकुमार-चरित्रम् कियन्तः कुनखा जायन्ते, केचिच्च व्यङ्गाः, अपरे च पङ्गवो भवन्ति। किमधिकं कथयामि, जीवहिंसावतां सर्वा अपि विपदः पदे पदे लगन्ति। पातयति च परत्र चामुत्र च महाक्लेशोदधौ। अतः सा हिंसा सदैव हेया, कदाचिदपि नोपादेया सेति। यादृशं पुण्यं सुखं च लोकानां जीवदयया जायते, तादृशं पुण्यं सुखादिकं वा सर्वे वेदा अपि दातुमलं नो भवन्ति, न वा विधिवद्विहिताः सर्वे यज्ञास्तत्पुण्यं जीवानां प्रयच्छन्ति। नैव समेषां तीर्थानामभिषेका वा तावन्ति पुण्यानि वितरन्ति। इत्थं मुनिमुखाद्धमं निशम्य प्रतिबुद्धो विशुद्धधी राजकुमारो निरागसां जीवानां निग्रहाऽभिग्रहमकरोत्। तदा लोकोत्तरोऽपि मुनिस्तस्य राजसूनोर्मनः प्रतिज्ञातार्थपालने दृढीकर्तुं भूयोऽपि जीवदयां प्रशशंस।
तथाहि-भो राजपुत्र! त्वमतः परं मुनीनामपि श्लाघ्यतामापिथः, यतः पारम्पर्यगतामपि जीवहिंसां जहिथ, इति हेतोर्निरतिचारजीवदयापरिपालनात्तव दुर्लभा अपि नराऽमरसम्पदः सुलभा एव भविष्यन्ति। परमेतन्महाव्रतं गृहीत्वा कदाचिदपि लोकानामनुरोधेन मा त्याक्षीः, यदुत्तमाः पुमांसः प्राणात्ययेऽपि स्वीकृतं नोज्झन्ति। यदुक्तम् -
अद्यापि नोज्झति हरः किल कालकूटं, कूर्मो बिभर्ति धरणी खलु पृष्ठभागे ।
अम्भोनिधिर्वहति दुर्वहवाडवाग्निमडीकृतं सुकृतिनः परिपालयन्ति ||१|| व्याख्या - पुरा स्वीकृतं कालकूटं प्राणापहारकरमपि विषम्, अद्यापि-अद्यपर्यन्तं हरो नोज्झति-नो जहाति, एवं कूर्मः कमठोऽपि निजपृष्ठभागे दुर्भरामपि पृथ्वीं बिभर्ति धत्ते, तथा सागरोऽपि पुरैकदा धृतं दुर्वहं वोढुमशक्यं वाडवाग्निमद्यापि वहत्येव, अतः
70