________________
श्री अघटकुमार-चरित्रम् कायोत्सर्गस्थितं गतस्पृहं निरहङ्कारं मुक्तेनिःसोपानमिव कञ्चनमुनिमाम्रतरोस्तले व्यलोकत। तदा स्वरूपयौवनमदोन्मत्तो न्यूनधीः कृताङ्गराग-सौरभ्यवासितो पवनावनिर्भूपात्मजस्तस्य मुनेः प्रस्वेदमल-दौर्गन्ध्यभरेण व्यथितस्तं जुगुप्साञ्चक्रे, दुर्मतित्वात्कुलाबैरवज्ञामपि तस्य भूयसीमकरोत्। __तस्मिन् काले कश्चिदेको वयस्यस्तमेवमभाषत, कुमारस्य भविष्यता पुण्यनिचयेन प्रणुन्न इव। अये कुमार! एनं भवान् माऽवहेलयतु। यदसौ पुण्यप्राप्यपदद्वयदायकः पावनादपि पावनः परमस्तीर्थोऽस्ति। ये खलु भव्यात्मानः परया भक्त्या महताऽऽदरेण नित्यममुं महात्मानं नमस्यन्ति, पूजयन्ति च, तेषामाशु सर्वार्थसिद्धयः करगता जायन्ते। अत एनं प्रणम्य निजं जन्म पवित्रीकुरु, यतो ह्यमुष्य दर्शनेनापि प्राणिनामनेकजन्मार्जितान्यपि पापानि तोयस्थलवणमिव क्षणाद्विलीयन्ते। इत्थं मधुपाकोपमां वयस्यभणितां गिरं समाकर्ण्य स राजपुत्रस्तन्मित्रं भृशं स्तुवन्नात्मानं निनिन्द। तदनु श्रद्धाभक्तिभरो राजकुमारस्तं मुनिं यथाविधि प्रणनाम। मुनिरप्यवधिज्ञानबलेन तमुपकर्तारं विदित्वा कायोत्सर्ग पारयित्वा कृपया धर्ममुपादिशत्।
तथाहि-भो भव्यात्मन्! इहापारसंसारसागरे पतितानां प्राणिनां धर्मात्परः कोऽपि त्राता नास्ति, धर्म एव जनान् सुखयति, स एव सदा जीवान् भवाम्भोधितो निस्तारयति, इत्थंभूतस्य धर्मवृक्षस्य कल्पवृक्षोपमस्यातिदृढं मूलं जीवदया निगदिता तीर्थकृता, स एवाऽमुष्य संसारसागरस्य तटोऽस्ति। किञ्च हिंसा हि क्रोधरिपोभल्लीव दोषाणां पल्लीव सर्वानर्थकरी जागर्तितमाम्, अतो भव्यैः सा हिंसा खलु सदैव त्याज्या धर्मतरुरेव कल्पतरुरिव सेवनीयः। किश्चाऽस्मिन् संसारे प्राणिनो हि जीवहिंसया कुष्ठित्वं व्रजन्ति, 1. पवित्रकृता अवनिः येन पवनावनिः गजभञ्जनः।
69