________________
श्री अघटकुमार-चरित्रम्
प्रपेदिवान्।
___अथाऽघटोऽपि तद्राज्यमासाद्य निजजननी, तौ मालिको, देवधरं, तानशेषान् वधकांश्च, तदैवाऽऽकार्य राज्यभोगिनो व्यधत्त। तदनन्तरमघटमहीपालो राज्यं प्राज्यं नयेन पालयन् विपक्षपक्षदुर्निरीक्ष्योऽपि नयधर्मयोर्वश्यतामैत्। तस्मिञ्छासति सति समस्ताः प्रजाः प्रामोदन्त। परां प्रतिष्ठां च निन्ये। विषादस्तु विषण्णीभूयतद्विद्वेषिणां नगराण्यागात्। यस्य यात्रारम्भेऽपि सकला अपि भूपालाः सेवकतामेवाऽऽपेदिरेतमाम्, तस्य सङ्ग्रामकौतुकं केनापि नैवाऽऽपूरि।
अथैकदाऽत्युग्रतपो वारिधौतान्तरमलोत्करः केवली सुघटितो राजर्षिस्तत्राऽऽययौ। तमागतं श्रुत्वाऽघटराजोऽपि सपरिवारो महीयसाऽऽडम्बरेण समुत्पन्नप्रमोदातिशयस्तद्वन्दनायै तदन्तिकमागच्छत्।
अथ कनककमलासीनं राजहंसमिव राजर्षि महीयस्या भक्त्या विधिवदभिवन्द्य पदातिरिव तदने निषसाद सः, तदनु श्रुतिसुखं मनोहरं धर्मोपदेशं तदीयमुखारविन्दाच्छ्रुत्वाऽघटमहीपालः प्राग्भवार्जितं निजं चरितमप्राक्षीदसौ। तथाहि-भगवन्! मया भवान्तरे किमगण्यं पुण्यमकारि, येनाऽमुष्मिन् भवे विपदोऽपि सम्पदः समपद्यन्त। तदाकर्ण्य केवली समूचिवानेवम्
राजन्! इह भरताऽवनौ विदर्भदेशावतंसभूतं कुण्डिनाख्यं महानगरं विलसति। तत्राऽऽस्ते वित्रासिताऽशेषविपक्षीभूतभूपः पुरन्दरो नाम क्षितिपतिः। तस्याऽऽसीन्महीयसी रूपलावण्याधुदारगुणगरीयसी शची प्रेयसी राज्ञी। यस्य च विद्वेषिगृहा अनारतं क्व दिवः, कुत्र भूपालाः क्व चाऽयं स्वामी, क्व चेदं गीतं, क्व च शिवानां रुतमिति खगारवमिषेणाऽऽक्रन्दन्तितमाम्। तस्य भूपतेर्गजभञ्जनो नाम तनयोऽभवत्, यो हि सङ्ग्रामावनौ गजराजकुम्भान् अभनक, कृतवांश्च नैजमन्वर्थ नाम। स चैकदा तुल्यवयोरूपैर्वयस्यैः सत्रा नन्दनाकारं पुरोपवनमीयिवान्। तत्र च