________________
श्री अघटकुमार-चरित्रम् व्यजिज्ञपन्। राजन्! अधुना तत्र मा याहि, यत कुमारो व्यसुर्जातः। साम्प्रतं प्रसादं कृत्वा निजसौधे पादोऽवधार्यताम्, यस्मादमङ्गलं मृताननं राजानो नेक्षन्ते, अथेदृशीं वज्रपातसोदरां गिरं श्रुत्वा शोकशङ्कुना कीलितो नरपतिस्तदैव ताम्बूलमहासीत्।
अथ निजसौधमागतो राजा मानसे निजे दध्यौ-अहो देवस्य चरितं विधिरपि नो जानाति, सर्वतो बलवच्चाऽस्ति, केषामपि वाङ्मनसयोर्गोचरतां नोपैति। यच्चिन्तयति जनस्तत्तु विघटयति, अचिन्तितं पुनरेतद् घटयति, ईदृशं दैवमेव बलीयः प्रमाणं चास्ति, मनुष्याणाम्, ततोऽन्यच्चिन्तितमपि विनश्यत्येव। यदसौ कुमारो यत्नतो रक्ष्यमाणोऽपि सहसैव व्यपद्यत। एष दासेरः पौनःपुन्येन हन्यमानोऽपि लक्ष्मीमधिकाधिकामेव लेभानः। इत्थं शोकसागरे पतितो मेदिनीपतिः कथमपि रजनीं निर्गम्य, जाते च प्रभाते सुतक्रियां विधाय द्वितीये दिवसे सदसि सकलजनसमक्षमित्याख्यातवान्- हंहो! मत्पापं सर्वे शृणुत, अमुष्याऽघटस्य पुराकृतं सुकृतनिचयं पश्यत, ज्ञानगर्भस्य ज्ञानमपि कियदस्तीति प्रत्यक्षीकुरुत। जगदेतत्त्रयीं सर्वेषामाश्चर्यजननीमवगच्छत, असावघटो यदैवाऽजनिष्ट, तदैव तमदृष्ट्वैव केवलं जन्ममात्रश्रवणात् पुरोधा मामित्याचख्यौ पुरा, राजन्! एष ते राज्यं त्वयि जीवत्येव ग्रहीष्यतीति। ततो राज्यलोभेन धर्ममप्यहं नाऽजीगणम्, नैवात्मविशुद्धं कुलमजीगणम्। चाण्डालोऽपि यत्कर्तुं सहसा न प्रभवति, तदप्यहमचीकरम्। किञ्च-मया पापीयसा बाल्यादेवैष मारणाय विहितः सकलोऽप्युद्योगो विफलतामेव निनाय, परमेष निजपुण्यैः सदैव सुरक्षितोऽभूत्। इत्थं स्वकृतं पापं लोकसमक्षं प्रकाश्य तानापृच्छय तदैव पुण्योत्कटमघटकुमारं स महीभर्ताऽभिषिच्य तस्मै निजं प्राज्यं राज्यं प्रदाय सकलं जनं क्षमयित्वा गुरोः पार्श्वे स्वात्मकल्याणसिद्धये संसारोदधितारणसमर्थां दीक्षां
67