________________
श्री अघटकुमार-चरित्रम् एह्येहि, पर्याप्तमिदानी चत्वरलङ्घनेन, अपि च तत्र भवान् नवविवाहितोऽसि, क्वापि किञ्चिदपि तव स्याच्चेच्छोभनं न स्यात्। सा चाऽस्माकं गोत्रदेवी लगति, तामहं स्वयमेव पूजयिष्यामि, भवांस्त्वत्रैव तिष्ठतु इति ब्रुवन्नधस्तादवतीर्य तन्नेपथ्यमण्डितः कुमार एव बलिपुष्पादिकमादाय देव्यर्चायै चचाल। अघटकुमारस्तु तत्रैव तस्थिवान्। इतश्च स राजकुमारो यावद् देव्यालयद्वारं प्राविशत् तावदाकृष्टचापः कोऽपि घातको व्यमुचच्छरम्। तेन विदीर्णहृदयो विक्रमसिंहः सहसैव कदलीस्तम्भवद् भूमौ पपात, तत्कालमेव व्यसुरभूत्।
तदैव तत्रत्यलोकाः किमभूत्किमभूदिति ब्रुवन्तः पूच्चक्रुः। हंहो! देव्यर्चायै समागतो राज्ञो जामाता केनापि पापीयसा पुंसा बाणेन न्यघानि, इति जल्पन्तः सर्वे योद्धारस्तत्राजग्मुर्महता सम्भ्रमेण। राजापि तदाकर्ण्य क्षणं मनस्यसीमं सुखमन्वभूत्। लोकानुवृत्तयैव किं जातं-किं जातमित्यालपन् बहिः शोकातिशयं प्रकटयन् यावत्सपरिच्छदो भूपो राजपथमायातस्तावत्तत्राकृष्टखड्गोऽघटकुमारोऽप्यागत्य येन केनापि दुर्धिया छद्मनाऽयं कुमारो व्यसुरकारि, ध्रुवं तेन पापीयसा सिंहोऽजागारि, अथवा कृतान्तः प्राकोपि, इत्यादि जल्पन्तमुद्यतासिमघटं पुरस्तादवलोकमानः किमेतदिति विच्छायवदनोऽजल्पद् राजा। ___ तदाऽघटोऽवक्-देव! अहमिदानीमेकाकी पूजनार्थ गोत्रेश्वरीमन्दिरं व्रजन् मार्गे कुमारेण पृष्टः सर्वमुदन्तमचीकथम्। तदनु कुमारेणाऽभाणि, त्वमत्रैव तिष्ठ, यतस्त्वं तन्मार्गमपि नो जानासि, रात्रावेकाकी कथं तत्र यास्यसि। अतो मयैव तत्राधुना यास्यते, इत्युदीर्य मया वारितोऽपि सहसैव कालपाशैराकृष्ट इव मदीयनेपथ्यं परिधाय स गेहान्निरगात्। तदैव कुमारदृश्वानो जना अपि राजानमिति 1. अनुवृत्तया = अनुगमनेन ।।
66