________________
श्री अघटकुमार - चरित्रम्
वधूवराभ्यां सत्रा चतुरङ्गया चम्वा शोभितस्ततोऽचलत् । अथ तदागमनसोत्सुकैरशेषैः पौरजनैरनुरागातिरेकान्नृपादेशात्प्रागेव नगर्याः शोभा महती व्यधीयत । अथ पथि पथि रागान्निर्निमेषेक्षणैः पौरैर्नरनारीगणैः सादरं निपीयमानः श्रीमानघटकुमारश्चक्रिवन्महोत्सवे जायमानेऽन्तःपुरीं प्राविशत् । तस्मिन् काले सर्वे राजन्याः सामन्ताः सचिवादयो राजजामातरमघटकुमारं ढौकितैरुपायनभरैरधिकं प्रौढं विदधिरे । इत्थं तदुपायनैरतिप्रौढिं गच्छति सत्यघटकुमारे पञ्चषाहेषु व्यतीतेषु च स महीपतिस्तद्वधाय निशायामेकस्यामित्यचिन्तयत्-इह लोके कस्यचिदपि पुत्र्या वंशोन्नतिर्न जायते, किन्तु पुमपत्येनैव जायते। अत एनं जामातरं केनाप्युपायेन हत्वाऽकण्टकीभूतमिदं राज्यं सूनवे मया देयम् । इत्यवधार्य कमपि घातुकं सर्वमासूच्य कृत्रिमसंभ्रमो नरेशस्तमित्थं दूतमुखादचिख्यपत्-वत्स! अस्मदुपयाचितपूर्तयेऽद्य रात्रावेकाकिना त्वया नगराद्बहिः स्थितामस्मद्गोत्रदेवीमभ्यर्चितुं तत्रागन्तव्यम्। एतन्नृपादेशमासाद्य सर्वां बलिपूजनादिसामग्रीमादाय करे चैकस्मिन् पटलिकां वामे च करे दधानः सोऽघटस्तां देवीमर्चितुमेकाक्येव निशि निजसदनादचालीत् ।
तदा सौधगवाक्षस्थः क्षितिपतेः सूनुर्यान्तमघटमुदीक्ष्य दध्यौक एष योगीन्द्रो विद्यां साधयितुमिव निशि याति, अथामुं समीपमागतं भगिनीपतिमवगत्य तन्मूर्धनि राजकुमारः स्मेरमुखः पूगीफलेन जघान, बभाषे च - अये ! महाधूर्त्त इव लक्ष्यसे। यतःइयत्यामपि वेलायां रजन्यां व्रजसि । क्व यासि ? किं च चिकीर्षसि, मामपि तदावेदय, इत्थं राजकुमारेण सादरं सानुरोधं भणितोऽघटस्तमाह- अयि शालक ! अहमेतत्किमपि नैव वेद्मि, किन्तु राजादेशाद् ग्रामाद्बहिर्भवद्गोत्राधिष्ठात्री देवी जागर्ति, तदर्चायै प्रस्थितोऽस्मीदानीमनवसरेऽपि । तदाकर्ण्य कुमार आख्यत् भोः !
65
-