________________
श्री अघटकुमार - चरित्रम् द्भुतं पटमन्दिरं निवासार्थमार्पिपत् । स्वयं विवाहाऽशेषसामग्रीसङ्घटनायोद्यतो राजकुमारः क्षणाद् ब्रह्माण्डस्य सोदरमिव पश्यतां लोकानां चेतोहरमतिविशालं महामण्डपं प्राचीकरत् । अथ सायन्तने शुभवेलायां नृपनन्दनो महता महेन त्रिजगज्जनजनितोत्साहः स्वसारमघटकुमारेण पर्यणीनयत् ।
अथ द्वितीयेऽहनि कुमारप्रेषितः कश्चिद्वर्धापकस्तत्र गत्वा राजानं व्यजिज्ञपत्-राजन्! दिष्ट्या वर्धापयामि, तत्र भवता यथा न्ययोजि, तथैव राजकुमारेण समपादि महीयसाऽभूतपूर्वेण महोत्सवेन । तदानीं तयोर्वधूवरयोः काचिदवाच्यैव शोभा बोभवामास, यां कोटिजिह्वोपि निगदितुं नो क्षमते । किन्तु सर्वे पुरावेदिनो जना हस्तावुत्थाप्यैवमूचिरे यदीदृशी लक्ष्मीर्लक्ष्मीकेशवयोरिवेतरयोः कयोश्चिदपि वधूकाले नैवाऽजनीति । अमुया वार्तया तत्कालोद्भूताऽन्तर्विषादविह्वलीकृतो नरपतिरुत्सवं वर्णयन्निव मूर्धानमचकम्पत । किञ्च-रे दुर्दैव! मयि त्वमधुना विपरीतं फलं वितर वितरेति मुहुः परिगदन् मनसा विधिं धिक्कुर्वन् मनसि विस्मयाधिक्यं दधदपि राजा बही रञ्जित इवाऽभूत्तमां निजसुतोद्वाहश्रवणात् । हन्त ! कुमारेण विपरीतमेव सर्वमकारि, अहमन्यदेवालिखम्, तत्तु नैवाऽकारि । अत्याश्चर्यमेतत्। यन्मम राज्ञ आदेशमवगणयता विनयवतापि कुमारेण ततो विपरीतं व्यधायि । अथवा मयैव विपर्यस्तधिया तथैवाऽऽलेखि तदा । अपि च- निजप्राज्यराज्यविलोपशङ्काव्याकुलतया समुद्गच्छदश्रुपूर्णलोचनयुगलोऽपि महीपतिस्तदानीं सदसि जनान् बहिरानन्दमेवाऽदीदृशत् सञ्जाताऽसीमानन्दव्याजेन । इत्थं बहिरुच्चैस्तमं प्रहर्षं दर्शयन्नपि स्वान्ते दहनज्वालोपमया शुचा तातप्यमानः क्षितीशः सह कुमारेण वधूवरौ समाह्वातुं लेखं प्रैषीत् तत्र।
अथ राजलेखमधिकृत्य तदर्थमवगत्य च कुमारोऽपि तदैव
64