________________
श्री अघटकुमार-चरित्रम् सुखेन सुष्वाप, सिषेवे चैनं शीतलो मन्दसमीरणः स्वैरम्। किञ्च तदानीमेवेतस्ततः पर्यटन् स यक्षाधिपतिरपि तदीयसुकृतप्रचौराहूत इव तत्रागत्। तथावस्थमघटकुमारमालोक्य सकोपं तत्पुरस्तादित्याख्यत्-हा हा! केन पापीयसा मदीय एष सूनुरिमां पथिकोचितां दशां प्रापितः। तदानीमवधिज्ञानेन तत्सर्व राजेङ्गितं विदित्वा हा हा दुरात्मना राज्ञा सुघटितेनैष हन्तुमेव प्रहितोऽस्ति। तदनु तत्र राजनि साभ्यसूयो यक्षेश्वरस्तत्क्षणादयःशल्यमयस्कान्तरत्नवद्राजादेशं तत्पादिाकृष्य वाचितवान्। तत्रैतदासीत्। एतस्याऽधौतपादस्य तालपुटं गरलं देयमित्यक्षरश्रेणीमालोक्य तत्कालमेव ताममार्जयत्। स पुनरवधिज्ञानेन कटकस्थां राजकुमारी कुमारस्य सहोदरीमवेदीत्। अनेनाऽऽयासमात्रेण सा राजकुमारी परिणाययितव्येति विलिख्य तं राजलेखं पूर्ववत् स्थापयित्वा यातवान् सः। तदनु प्रातरुत्थायाऽघटोऽपि शिबिरमागत्य सम्मुखीनाय तस्मै कुमाराय नृपादेशमार्पयत्। तदा कुमारोऽपि तत्पत्रं पठित्वा मूर्भावतंसतां कृत्वा राजानमिव सिंहासने कुमारमघटं नीत्वा साष्टाङ्गमनमत्। ततस्तावुभावपि कुमारौ मिथः परिष्वज्य समुचितासने समुपाविशताम्। कुमारो भूयोऽप्यघटानीतं राजलेखमुन्मुद्रय तदर्थमवधार्य दैवज्ञमाकार्य सम्भ्रमस्मेरलोचनः प्रश्नयामासिवान्भो दैवज्ञ!, किमस्ति? अमुनाऽघटकुमारेण सत्रा सुन्दर्या अमुष्या मेलापको भविष्यति साधीयान् राजकुमार्या इति विचार्यताम्, निगद्यतां चाशु सर्वमिति। दैवज्ञः स्माऽऽह-आयुष्यमन्! अनयोर्हरगौर्योरिवाऽतिश्रेयान्मेलापकः प्रतीयते, विवाहलग्नोऽद्यैव सन्ध्यासमये तद्वदेवास्ति शुभंयुः। तदाकर्ण्य कुमारो मनस्यशोचत्मन्येऽस्मादेव कारणादेष स्वयमेवात्र जवात्प्रहितस्तातेन, सा मे स्वसा तु तत्र नाऽऽहूतेति। तदनु भूपसूनुरघटकुमारस्य जन्यावासमिवा1. साभ्यसूयः-ईर्ष्यालु। 2. साधीयः-अधिक श्रेष्ठः।
63