________________
श्री अघटकुमार-चरित्रम् सर्वमेतद्व्यजिज्ञपन्-स्वामिन्! तेनाऽघटेन दौवारिकोऽप्यात्मीय एव पुमान् स्थापितः, वयं च सर्वे विसृष्टाः। तच्छ्रुत्वा फालभ्रष्टो मृगारातिरिव चेखिद्यमानः पृथ्वीपतिः स्वान्ते किलैवमचिचिन्तत्। अहो, दृक्तु प्रसारितैवाऽतिष्ठत्, किन्तु वायुनाऽमुना कज्जलमक्षेपि, हन्त, दुर्दैवालोकितस्य मम मनोरथा रङ्कस्येव मनस्येवोदपद्यन्त, विलिल्यिरे च हृद्येव, असहायोऽप्यसौ पुराऽपि केसरीव दुर्निग्रह आसीत्, अधुना तु शक्रेणापि निग्रहीतुमशक्य एव प्रतीयते। हा हा! कीदृशं मे दुर्दैवं प्रादुरासीत्। यद्यद्विदधे, तत्सर्व वैफल्यमेव नयते। ततो भूपतिः कुटिलमतिस्तान् विसृज्य गुप्तलेखेन तमघटमित्यादिशत्-भोः सखे! पत्रमालोक्य द्रागत्रागत्य मम मिलित्वा जलादिकं पिबेः, यतो ह्यसाधारणं त्वन्मात्रसाध्यं कार्यमेकमुपतस्थे। अघटोऽपि तल्लेखमधिगत्य तत्क्षणं करभीमारुह्य सह पञ्चषैः पत्तिभिरज्ञातचर्यया निश्युपराजमाययौ। तत्रागतमघटमुदीक्ष्य राजापि तदानीं कृत्रिमं सम्भ्रमं दर्शयन् सखे! त्वादृशो भक्तो हितैषी च मम कोऽप्यन्यो नैवास्ति, एतत्सत्यमवेहि। इत्थं बाह्यमधुरालापेनाऽपृणोच्च। तदनु नृपोऽवक्-अयिसाहसिन्! सम्प्रति समुपस्थिते सङ्गरे प्रेषितः कुमारः शिबिरे वर्तते, तत्पार्धे कोऽप्यन्यः सांयुगीनः पुमानधुना नास्ति, अतस्त्वामिदानीमनवसरेऽप्यस्मार्षम्। त्वमधुनैव तत्र याहि, मार्गे क्वापि विलम्बं मा कार्षीः। त्वयि तत्र वर्तमाने सति सर्वेषां महीयानुत्साहो भविष्यतितमाम्। तदैव स्वहस्तेन लिखित्वा पत्रमघटाय नरेश्वरः समार्पयत्। राज्ञः कौटिल्यमजानानः सरलाशयोऽघटकुमारो नृपादेशमादाय तदैवाऽचलत्।
अथाघटकुमारो दिनान्ते कटकासन्ने नन्दनस्यानुमिव मनोहरं शाड्वलद्रुमाणां वनमाप। तत्रैव पथश्रान्तः स पल्लवशय्यायां 1. युद्धे सहयोगी। 2. नयी घास उगी हुई हो।