________________
श्री अघटकुमार - चरित्रम्
पीदानीमेनं हन्तुमर्हामि, तथापि साम्प्रतममुष्य हनने लोके भूयान्महांश्च मेऽपवादो भविष्यति । इतीदानीमसौ न हन्तव्यः । तत्र गत्वा देशं शास्तु। पश्चादुपायेन हनने सर्वमीहितं सेत्स्यतितमाम् ।
अथाऽघटोsपि स्वांशं गोत्रज इव प्राप्तसाम्राज्यो द्वितीयेऽह्नि सुधाकिरा गिरा राज्ञा भणितः - भोः, अघट ! तत्र याहि, देशं शाधि, नो चेद्दधिस्थलीं काका इवाऽध्यक्षं विना वैरिणः प्रजा लुण्टिष्यन्तितराम्। तदनु कृताञ्जलिरघटोऽपि नृपालादेशमुररीकृत्य सहर्षं तदैव राजकीयपत्त्यादिपरिवारयुतो मथुरां प्रत्यचलत्। तदागमनमाकर्ण्याऽऽनन्दमेदुरैः पौरैः सा मथुरानगरी देवपुरीव द्रागुत्पताकाऽकारि । तस्यां पुर्यां प्रविशतः समग्रबलशालिनः श्रीमतोऽघटस्य द्वारावत्यां हरेरिव काचिदनिर्वचनीया लक्ष्मीः प्रादुरासीत् । तदानीं ज्यायसां पौराणां गणश्चिरं जीव, चिरं नन्द, चिरं राज्यमकण्टकमेतद् भुङ्क्ष्व चिरमाश्रितलोकानां मनोरथांश्चं पूरय, इत्याशीभिरेनं प्रेदिधत् । तथा पुरपुरन्ध्रीभिरमरीभिरिव भासमानाभिराशिषा भूयस्याऽभिनन्दितोऽघटाभिधो माण्डलिको महोत्तुङ्गं राजसौधं प्राविशत् । अथ दानमानवचनादिना लोकान् यथायोग्यमभिरञ्जयन्, राज्यं च नयेन कुर्वन्नन्येद्युर्निशायामेवमशोचत् - या लक्ष्मीः सुमित्रैर्न भुज्यते, यां चावलोक्य द्वेष्टारो वक्षांसि नो ताडयन्ति, तयाऽलम् । नैव श्लाघ्यते वा लोके सा लक्ष्मीरेधमानापीति ।
-
अथ जाते च प्रभाते विज्ञसिं विलिख्य तातपादान्तिके प्रेष्य स्वदेश्यानां सहचारिणां सहस्रं नागानीनयत् सः । ततः समागतेषु स्वीयभटेषु तत्क्षणादेव राजपक्षीयांस्तान् सर्वानुत्थाप्य तत्स्थाने सर्वत्राऽऽत्मीयान् पुरुषानेव न्ययूयुजत् । किञ्च भो भोः ! यूयमिदानीमेव नृपान्तिकं व्रजत, यस्माल्लोके समुपागते देवदत्ते न हि यज्ञदत्तः केनापि गीयते, इति तानजल्पीच्च । तेऽपि तदैव राज्ञः समीपमागत्य
61