________________
श्री अघटकुमार-चरित्रम् पुनर्निरचिनोत्। तथाहि-नायमुपायान्तरेण कथमपि वध्यो भवितुमर्हति। अत एष देशादिदानेन वश्यो विश्वस्तश्च विधाय पश्चादनायासेनैव केनापि व्याजेन हन्तव्य इति।
अथ सायमायातं देवधरं सपरिच्छदं मुहुर्मुहुरघटं गाढदृशा पश्यन् राजाऽजल्पत्-भो महाभाग! अयं कोऽस्ति यस्त्वां निकषा, महाबाहुर्विक्रमेण सौन्दर्येण चाऽपरश्चक्रपाणिरिव दरीदृश्यते। पश्चात्सोऽप्यभाषिष्ट-स्वामिन्! एनमघटनामानं मामकं सुतं जानीहि। अमुष्य सर्वशास्त्रेषु कलासु च सर्वासु नैपुण्यमस्ति, अस्ति चायमशेषशस्त्रास्त्रयोधनपटीयान्। इत्थं तस्योदारगुणग्रामं शृण्वन्नवनीजानिर्भयोद्भूतैरपि रोमाञ्चैरानन्दित इव भवन्नित्यवोचत्। यद्येवमस्ति, तर्हि ते सुतो मामवलगतु तस्मै देशमेकं वितरामि। सोऽवक-देव! मम कुले केनापि राजसेवा नाऽकारि, सर्वे पूर्वजा अश्वव्यापारमेव चक्रिवांसः [चकृवांस]।
अस्मिन्नवसरे पैत्रिकं वचो निशम्याऽघटः पितरमित्याचष्ट तात! स्वयमायान्ती स्वयम्वरे यं लक्ष्मीः कथं त्यज्यते। कौलिकी तु शक्रचक्रिणामपि सा नैव श्रूयते। तस्माद्राज्ञः शासनं सहर्षमेव प्रमाणीक्रियताम्। इत्थं तयोर्वाचमाकर्ण्य राजा देवधरमित्थं बभाणदेवधर! मा भैषीः। त्वं तु कुलक्रमादागतमश्वमेव व्यप्रियस्व। केवलं तावकः पुत्र एव मया दत्तं देशमेकमादाय साम्राज्यं भुङ्क्ताम्। पार्श्वे चाऽमुष्य मामकीना एव पुमांसः स्थास्यन्ति। पत्तयोऽपि सर्वे मामका एव सेविष्यन्ते चैनं सदा। तं तु केवलं तद्देशशासितारमेव विदधे। इत्थमाख्याय तस्मा अघटाय राजा मथुराराज्यमदात्। विश्वास्य मैनिको मीनेभ्यो मांसमिव। तदैव च पुरोधा नृपश्च शकुनग्रन्थिं जग्रन्थ। निश्चिक्ये च महीपतिमनस्येवं-नूनमनेन कर्मणाऽसौ मे मुष्टिमध्ये पतितोऽभूत्। यद्य1. कौलिकी-वंशपरंपरागता।
गता।
60