________________
श्री अघटकुमार-चरित्रम् कविधक्रीडानाटकाऽवलोकनजान् कौतुकान् पुत्रं दर्शयन् नृपद्वारमागच्छत्। तत्र गत्वा प्रतिहारिणमाख्यत्-भोः! राज्ञो मदागमनं निवेदय। प्रतिहारी तदैव सभामेत्य राजानं व्यजिज्ञपत्-स्वामिन्! कश्चिदश्वव्यापारी द्वारि तिष्ठति राजदर्शनार्थी। राजाह-सत्वरमिहानय, ततस्तेन सह पुत्रादिपरिवारयुतः स राजसभामविक्षत्। ततः स कृती श्रेष्ठतरौ द्वावश्चौ नृपाय प्राभृतीकृत्य विधिवन्नमस्कृत्य यथास्थानमुपाविशत्। तदानीं पुनरपि पुरोधसो दृष्टिः पुरेव सुभङ्गं कामिनीव नवयौवनमघटं शिश्लेष। तदालोकमानः शङ्कमानश्च मनसि राजा तदैव तं देवधरं प्रसन्नमनाः सत्कृतवान्। सोऽपि नृपादिष्टमावासं मानसं मराल इव स्रागगच्छत्। तस्मिन् गतेऽतिविस्मितो ज्ञानगर्भो राघवं वशिष्ठ इव तथ्यां वाचमुवाच-महाराज! योऽसौ नवयौवनः पुमान् देवधरं दक्षिणेन सदसि श्रीमताऽदर्शि, सोऽस्ते रिव त्वदीये स्थाने भविता, अत्रार्थे मनागपि संशयं मा कार्षीः, इति ज्ञानगर्भोदितं श्रुत्वा मन्दराचलेन प्रमथितः सरिताम्पतिरिव क्ष्मापतेर्मनश्चक्षोभ। व्याहृतं च तेन राज्ञा-अहो! मयि स्वतन्त्रे सपुत्रे च राजनि जीवति सत्येव कथङ्कारमेतस्यां श्रीविशालायां नगा राजान्तरो भवितेति। अत्याश्चर्यमेतत्। यत्सोऽपि कश्चिद्राजवंशीयो न, किन्तु दास्याः पुत्रः।
पुनश्चिन्तयति भूपः, किमेष स एव दासेरः किमपरो वा कश्चित्? नूनं तेनापि कण्ठाभरणमादाय कुत्रापि सोऽर्भको मुमुचे। अहो! भवान्तरे कीदृशं कार्यमनेन सुकृतं, बलवद्वास्य दैवं येन पुनः पुनर्हन्यमानोऽपि नैव हिंस्यते, सम्भाव्यते स एव बालः, नेतरः। कथमितरथाऽस्य नैमित्तिकस्य ज्ञानगर्भस्याऽऽस्यतः स एवाऽक्षरविन्यासः, सैव विस्मयपत्रिका च प्रादुर्भवतितमाम्। इत्थं चेतसि बहुधा चिन्त्यमानो राजाऽतिगूढं तस्य हननोपायमन्यदेव 1. स्राक् - शीघ्रम्।
59