________________
श्री अघटकुमार-चरित्रम् एव समपद्यन्त। सोऽहं महिषजीवस्तदा धर्म श्रुत्वा सञ्जातवैराग्यवशादनशनमरणात् सुघटितो नाम राजाऽभूवमत्र पूर्याम्। तेनैव हेतुनाऽत्र जन्मनि त्वयि मम मनःप्रतिकूलतामापात्। बन्धूनामपि पूर्ववैरवदत्र जन्मनि वैचित्र्यमध्यजायत। ये चैते भवतामुपकर्तारस्ते सर्वे भवान्तरे तव सुहृद आसन्। सम्प्रति निज-निजकर्मानुसारेण भवता सत्रा राज्यसुखमनुभवन्तितमाम्, इत्येतद् गुरुमुखादाकर्ण्य जातजातिस्मृतिर्नरपतिः प्रत्यक्षमिव तदशेषमपश्यत्। अवोचच्च मेदिनीपतिस्तदैवम्
भगवन्! अहमधुना भवद्वचनाऽऽलोकप्रभावतोऽज्ञानतिमिरपटलीपिहिताक्षोऽपि सर्व प्राग्भवीयमपश्यम्। तदैव सपरिवारो नरपतिस्तस्यैव गुरोः पार्श्वे भवाम्भोधेस्तरीमिव सम्यक्त्वमूलकद्वादशश्राद्धव्रतात्मकां देशविरतिमुररीकृतवान्। क्रमशः सर्वारम्भपरित्यागरूपं सर्वविरतिचारित्रमापद्य मतिमान् राजा क्षतनिःशेषकर्तव्यः परमां निर्वृतिमाप। ___ भो भो लोकाः! अघटनरपतेरिदं प्राग्भवीयं सम्पदामापदां च निदानं चरितमाकर्ण्य महोदारे निरतिचारेऽमुष्मिन् धर्मकर्मणि मतिं कुरुत, प्रमादमतिं च जहित, येन कदाचिदपि मनागप्यमूर्विपदो युष्माकं नागच्छेयुः। स सुघटितो नरेन्द्रः पापेनैव प्रसिद्ध सुतराज्यवियोगजं महादुःखमायिष्ट। नीचकुलावतीर्णोऽप्यसहायोऽप्यघटकुमारस्तु सुविहितैरगण्यैः पुण्यैरेव तदीयं प्राज्यं राज्यमग्रहीत्। अत ऐहिकाऽमुष्मिकसुखलिप्सवो भवन्तः सुतरामधर्ममुज्झन्तु, धर्ममेव चिन्तामणिमिव समाश्रयन्तु।
उक्तं च - धनदो थनमिच्छूनां, कामदः काममिच्छताम् । धर्म एवापवर्गस्य, पारम्पर्येण साधकः ||१||
74