________________
श्री अघटकुमार - चरित्रम्
वा, यो वा सोऽस्तुतमाम् । नूनमेतस्य वसुधाधिपस्य ग्रैवेयकजिघृक्षयैव निनाशयिषा प्रादुरासीत् । अतोऽसौ पुण्यभारप्राप्यः शिशुजीवन्नेव मोक्तव्यः कुत्रापि, कण्ठाभरणमेव समादाय राज्ञे ढौकनीयमित्यवधार्य तदीयं ग्रैवेयं गृहीत्वा स पुमान् बहिर्देवकुले तमर्भकमजहात्। तदनु नृपान्तिकं गत्वा तद्ग्रैवेयकमर्पयामास । नृपोऽपि तदालोकमानो निष्कण्टकोऽहमभूवमिति मन्यमानोऽमोमोदीत्तमाम् । इतश्च तत्र देवकुले दिदृक्षया गगनादवतीर्णं कञ्चनलेपयक्षं पुण्ययोगादघटः पर्यपश्यत् । स च निजतातमिव तं जानानः प्रमोदभरेण समालिङ्गय तदीयमुत्सङ्गमारुह्य तस्योच्चैस्तमं कूर्चमस्पृशत्। तत्रावसरे तात तातेति जल्पन्तं क्रीडन्तं निजाऽङ्कस्थममुं डिम्भं विलोकमानो नितराममोदत स यक्षोऽपि । असौ मधुरया गिरा मां पित्रीचक्रेऽतो मयाप्यसौ ध्रुवं पुत्रवत्पाल्यः । तदा तस्य शिशोः क्रीडाभिर्निशायास्त्रियामान् क्षणमिव स व्यतीयाय ।
—
पश्चात्तत्रैवासन्नवनेऽपुत्रमश्वक्रयिकं देवधरनामधेयं वासितमवधिज्ञानेन विदित्वा स यक्षराट् तत्रागत्य शयनीये सुखसुतं तमुदलीलपत् - भव्य ! निशावसानेऽधुना किं शेषे इति मधुरया गिरा । सोऽपि तद्वाक्यमाकलय्य प्रबुद्धो भवन् मनसि कौतुकं विदधानः शयनादधोऽवतीर्य सुविस्मितस्तमूचिवान् -स्वामिन्! कोऽसि, किमादिशसि च, इत्थं तेन भणितो यक्षेश्वरोऽवादीत् । अहं यक्षेशोऽस्मि, वने च मदीये प्रत्यहं गमाऽऽगमं कुर्वाणो भवानत्र निवसति, कदापि किञ्चिदपि नोपद्रवयसे च तेनाद्य त्वयि प्रसन्नीभूय तवान्तिकमागतोऽस्मि । किमपि रत्नादिकमभीष्टं चेद्वरय, तदहं तुभ्यं दित्सामि, इत्थं यक्षराजेन प्रोक्तः स उवाच। भगवन्! भवदनुकम्पनेन सर्वमेतत्पर्याप्तमस्ति, केवलं पुत्रविरह एव नौ मनो नितरां विदुनोति, यदि प्रसन्नोऽसि तर्हि 1. प्रसिद्धम् ।
57