________________
श्री अघटकुमार - चरित्रम् नितराममोमोदीत्। यतः शिशूनां केलयः केषां प्रमोदाय नो जायन्ते, अपि तु सर्वस्यापीति भावः । तदा मनसि दध्यौ च सः । यदयं बालो मामहितमपि पुनः पुनस्तात तातेति कर्णाऽमृतगिरा पितरममंस्त। अस्मात्कारणादमुष्मै द्रुह्यतो निर्दयस्य दुरात्मनो मम हृदयं किमिति न स्फुटिष्यति ? कथं वाऽमुष्य हनने पाणिः प्रभवेज्जात्वपि। यत्कृत्वा जनः प्रेत्य महीयसीं भूयसीं च नारकीं यातनामसह्यां चिरं सहते । यच्च हिंसकोऽपि नोत्सहते कर्तुं तत्कथं कुर्याम् । धिग् राजसेवां या हि दुर्निवारव्यसनद्रुमवाटिकीभूय लोकान्महानरके पातयतितमाम् । किञ्च यत्राऽग्नावभक्ष्यमिवाऽकृत्यं किमपि नास्ति । अथवा ततोऽधिका पापीयसी कापि राक्षसी नास्त्येव लोके । तदुक्तम् -
यद्वश्यतामुपगता जनता किलात्र, घोरातिघोरमतिकिल्बिषकारिकर्म | चर्कर्ति मृत्युमधिगत्य हि बोभुजीति, तन्नेहतां सुमतिमानिह राजसेवाम् ||१||
व्याख्या - यस्या राजसेवाया वश्यतां तदधीनतामुपगताप्राप्ता जनता-जनसमूहः अत्र संसारे घोराऽतिघोरं = क्रूरतरं किल्बिषकारि=पापकारि कर्म चर्कर्ति- अतिशयेन पौनःपुन्येन करोति । पुनः- मृत्युमधिगत्य - मृत्वेत्यर्थः तत्फलं यमीययातनादिकं बोभुजीति पुनः पुनर्भुङ्क्ते, तस्माद्धेतोः सुमतिमान् पुमान् इह लोके राजसेवां नेहताम् न कामयताम्।
-
=
हन्ताऽनेन घोरकर्मणा परत्र कां गतिं व्रजिष्यति नरपतिः । यदेनं क्षीरकण्ठमतिमुग्धधियं शिशुं जिघांसति पापीयानसौ लोभपिशाचग्रस्तः क्षितिपतिः । किमेष तदीयमवरोधं विदुद्राव, किमु कोषं वा मुमोष कुल्यो वा राज्यमादास्यमानः, शत्रुसुतो
56