________________
श्री अघटकुमार-चरित्रम् जीर्णतरस्य कूपस्य तटे जीवन्नेवाऽमोचि। परमेतत्सत्यं जानातु श्रीमान्, यत्तदैव सोऽर्भकः श्वापदादिसंयोगात्, कूपान्तः पतनेन वा कृतान्तस्याऽभूद्वैकालिकाऽशनमिति। तदाकर्ण्य क्षिति-पतिस्तौ पुमांसौ विससर्ज, यदेतत्कृत्यमकरुणजनसाध्यम्। तौ तु सकरुणौ। पुनस्तेनेदं तर्कितम्, यदेताभ्यामाराममध्ये समुज्झितः सोऽर्भको मालाकारेणाऽऽत्तोऽपरः कोऽपीति निश्चिकाय च निज-मनस्येवं स वसुधाधवः -
यत्खलूभयायत्तं भवति कार्य, तदवश्यं विनश्यत्येव दुर्मन्त्रिराजवत्। इत्यवधार्य क्षोणीपतिः कमप्येकं पत्तिमाकार्य समादिष्टवानिति, भोः! ममाऽद्य सभानिषण्णस्य या मालिनी पुष्पमालामर्पितवती, तस्याः सुतं निहत्य तदीयं ग्रैवेयकमानयतु भवान्। तत्पश्चानृपादिष्टः स पत्तिस्तदैव निघृणस्तुरगमारुह्य सायं तस्य मालिकस्य गृहाभ्याशमागात्। तत्रागत्य च यदकारि तेन तद्वर्ण्यतेदेवराजकसामन्त! अयि माण्डलिककुमारक! हे तात! भो मज्जीवित! इत्यादि मनोल्लासनपुरस्सरं वलिं तव करवाणि, अवतारणे च ते कोटिदीपोत्सवान् विधाय त्वज्जीवदुःखमादाय व्रजामि चाऽहम्। इत्थं हर्षातिशयेन वातूला सा मालिनी, कदाचित्करतालिकां दापयन्ती, कदाचिद्गायन्ती, कदाचिद्धासयन्ती, क्षणादात्मनः सुतं स्वेच्छया शिरस्यारोपयन्ती, क्षणं वक्षसि, क्षणं कटितटे, क्षणात्करकमलतले कुर्वती, तत्रागात्।
अत्रावसरे कण्ठाभरणभूषितं तमर्भकं तस्याः करादाच्छिद्य सहसैव स राजपुरुष आमिषं गृध्र इव गगने समुडीनवान्। अथाकाशे तमादाय क्राम्यतस्तस्य पुंसः शैशवात्सोऽर्भकः पौनःपुन्येन तात तातेति जल्पन् कूच पितुरिवाऽकृषत्। सोऽप्यमुना बालकर्मणा 1. केशशोभाम्।
55