________________
श्री अघटकुमार - चरित्रम् तदाकर्ण्य नृपोऽवदत्-भोः पुरोहित ! सा दासी पुत्रमसविष्ट, तेन तवेदानीमियान् विस्मयाटोपः कथमजनिष्ट, मुधैव तवायं विषादः प्रतीयते ।
तदा निमित्तज्ञः स राजानमित्याख्यत्-राजन् ! मामवज्ञासीरेवं मद्वाक्ये, यदसौ शिशुः सकलक्षितिपतीनामखर्वदर्पहा भूपतिर्भविष्यति ।
पुनरूचे नरपतिः- भोः ! यथाऽन्ये राजानो वर्तन्ते, तथाऽयमपि जायतां भूपतिः का ते हानिस्तेनापीति ।
पुनरवोचद् नैमित्तिकः - क्षितिपते ! स राज्यं करिष्यति, तेन मे मनागपि विस्मयः क्लेशो वा मानसे नोत्पद्यते । किन्तु त्वयि जीवति सति त्वदीयेऽस्मिन्नगर एव स नूनं भविष्यति सर्वेषां शासितेति विस्मयो मे महान् समुत्पद्यते । इदमेव विस्मयस्य कारणमवेहि । अनेन भवतां मनसि दुःखं सुखं वा समुत्पद्यतां नाम, परमेतस्मिन् व्यत्यासः कर्हिचिदपि नैव भवितुमर्हति, शिलाक्षरवत्।
इत्याकलयन् कोपाटोपादन्तः करीषाऽग्निरिव जाज्वल्यमानो नरपतिः क्षणमपि स्थातुमक्षमस्तदैव सभां विससर्ज । तदैव पुरोधसा सार्धं स नरपतिस्तत्र गत्वा समुदितं बालार्कमिव, कल्पतरोरङ्कुरमिव, द्वितीयायामभ्युदितं शशधरमिव, पुण्यानां निधानमिव, श्रीणां क्रीडोद्यानमिवाऽशेषराजलक्षणलक्षितं तं बालार्कमपश्यत् । तमद्भुतं विलोक्य राजाऽजल्पत्-विधे ! त्वां धिगस्तु । यतस्ते सृष्टिरीदृशीयमजायत। येन च त्वयाऽविवेकिना नूनमिदं पुंमाणिक्यं दौष्कुल्येन कलङ्कितमकारि। सन्तश्च निर्धनाश्चक्रिरे। दुष्कुले च पुंरत्नमुदपादि । मूर्खा हि धनिनो विदधिरे । एतत्त्रयी तावकीनैव स्खलना प्रतीयते । 1. दर्पं हन्ति इति क्विप् दर्पहन् । 2. विपरीतः ।
50