________________
श्री अघटकुमार-चरित्रम् इत्थं हर्षशोको मानसे विदधानो नरपतिः स्वसदनमागात्।
सायङ्काले पुनरेष मनस्येवमचिन्तयत्। हन्त, मत्पुत्रे मयि च जीवति सति कथमेष दासेयः शाशिष्यति मदीयाः प्रजाः। को जानीयात् विधेश्चेष्टितम्। अत इदानीमेव मया नखच्छेद्यतां नीतेऽमुष्मिन् नाऽऽयतौ कुठारच्छेद्यतामसौ जातुचिदपि नो व्रजिष्यतीति। अपि च-सुखेप्सुभिः प्रभुभिः समुत्थिताः कलहवह्नि-रोगऋणाऽरयो नोपेक्षितव्याः कदाचिदपि, यतोऽमी वर्धिताः सन्तो नितरां दुःखदा भवन्ति, अशक्याश्च प्रतीकतु पश्चादिति निश्चित्य कृत्याऽकृत्यमगणयन्नेष नरराजस्तस्य शिशोर्विघाताय पदातिद्वयमाज्ञापयत्। अथ तावपि पुमांसौ तत्र गत्वा तां दासी सुप्तामालोक्य तं बालकमुपादाय बहिः क्वापि निर्जनप्रदेशे समागाताम्।
तत्रैकः करुणया द्वितीयमेवमजल्पत्-भ्रातः! अमुष्य गर्भकल्पस्य सुलक्षणस्य शिशोर्मारणे मनसि मे महती घृणा समुत्पद्यते। अतस्त्वमेवैनं जहि, मुश्च वा। तदाकर्ण्य द्वितीयोऽवदत्-हन्त! किमेवमाख्यासि, मत्पूर्वजा अपि भ्रमादपि बालहत्या-गर्भहत्यादि महापापं नैव चक्रिवांसः [चकृवांस], किञ्च को नाम प्राणी दीने वियुक्ते च मातापितृभ्यां शिशौ नानुकम्पां बिभर्ति, पश्य, विधुन्तुदोऽपि जात्वपि बालेन्दुं नो ग्रसति, एवं तर्हि मामेतमर्भकं हिंसितुं यदी-रयसि', तन्न शोभनं मन्ये। अतोऽयमर्भको मया नैव घानिष्यते, त्वयैवाऽयं करुणास्पदं हन्तव्यो मोक्तव्यो वा। इत्थं तस्य वधे विवदमानाभ्यामुभाभ्यामपि मनसि समुद्भूतप्रभूतदयावद्भ्यां कुत्रापि जीर्णोपवने कूपोपकण्ठेऽत्याजि सोऽर्भको जीवनेव, समागत्य च तौ राजानमित्यजल्पताम्-स्वामिन्! इदानीमेव स कृतान्ताय बलीकृतः, तदानीं तयोः सुधोपमं तद्वचनमाकर्ण्य तत्कालमेव विशल्यतां मन्यमानः परमां निर्वृतिमापच्च। 1. ईरयसि कहना।
51