________________
श्री अघटकुमार-चरित्रम्
पुण्यफलदर्शकं -
श्री अघटकुमार-चरित्रम्
गुरुवरचरणसरोजं हृदये निधाय भवजलधिसुपोतम् । अघटकुमारचरित्रं रचयति सकलोपयोगकृते ||१||
अमुष्मिन् संसारे लौकिकसाहाय्यरहितानामपि पुण्यवतां प्राणिनामघटस्येव ध्रुवं विपदोऽपि सम्पद एव जायन्ते। तथाहि
इहैव भरतक्षेत्रे सकलदेशशिरोरत्नायितोऽवन्तीनाम महीयान् देशो विचकास्ति। वरीवृत्त्यते चात्र सकलभुवनतलीयनगरवरमण्डनी विशालानाम्नी श्रीशालिनी नगरी। निवसति चाऽस्यां दासीकृता-ऽशेषविपक्षपक्षः सुघटिताऽभिधानो भूजानिः। अस्य क्षितिभुजः सुरसुन्दरीव रूपलावण्यमञ्जरी सुन्दरी नाम्नी प्रेयसी विद्यते, यामालोकमाना दृढव्रता मुनयोऽपि क्षुभ्यन्ति। तयोश्चाऽतुलबलपराक्रमी विक्रमसिंहनामा पुत्रो विभ्राजते। अस्ति चास्य ज्ञानगर्भनामा नैमित्तिकः पुरोहितः। अथैकदा सभायामागत्य कोऽपि पुमान् कर्णाऽभ्याशे पुरोहितं किमपि न्यगादीत्। तच्छ्रुत्वा स नितरां विस्मयमापद्य तस्योत्तरं शिरःकम्पनेनाऽकरोत्। तत्रावसरे राजा सुविस्मितं पुरोधसमपृच्छत्, निमित्तज्ञ! विस्मयस्य कारणं मां कथय? सोऽवक् राजन्! एतत्कारणं मा प्राक्षीः। आकर्णिते चैतस्मिन् तव महान् खेदो भविष्यति। तदा पौनःपुन्येन तत्कारणं तस्मिन् पृच्छति सति स पुरोधा अपि तत्कारणं वक्तुमारभत। तथाहि
स्वामिन्! ममालये काचिदेका दासी निवसति, तस्याः पुत्रोऽजायत। सपुत्रापि सा शूद्रा मामके कुटीरके तिष्ठति।
49