________________
श्री रत्नसारकुमार - चरित्रम्
पङ्कजैःकमलैः सलिलमुषितम्, अर्थाज्जले निमज्जितम्। अन्यच्च
आवृणोति यदि सा मृगीदृशी, स्वाञ्चलेन कुचकाञ्चनाचलम् । भूय एव बहिरेति गौरवादुब्नतो, न सहते तिरस्क्रियाम् ||१||
व्याख्या - उन्नतो महाजनः कस्यापि तिरस्क्रियामपमानं न सहते। एतदेव दृष्टान्तमुखेन दर्शयति । यथा - मृगीदृशी- मृगाक्षी काचिद् युवतिः स्वाञ्चलेन - वस्त्राग्रेण कुचकाञ्चनाचलं-स्तनमण्डलात्मकं कनकगिरिं वारम्वारमावृणोति - आच्छादयति। परन्तु गौरवाद्धेतोः भूयः-पुनः पुनः बहिरेव एति - आयाति। अर्थात्कामिन्या मुहुरावृतमपि कुचयुगलं पुनः पुनरनावृतं भवति। तत्र कारणमन्नत्यमेव मन्तव्यम् । इत्थं मानिनां पुंसां प्राणहानितोऽपि मानहानिरतिदुःसहा भवति ।
इतश्च श्रीसारकुमारे प्रयाते सति तस्य त्रयः सुहृदोऽपि सहैव चेलुः। कथितं च
-
जानीयात्प्रेक्षणे भृत्यान्, बान्धवान् व्यसनागमे । मित्रमापदि काले च भायां च विभवक्षये ||१||
व्याख्या - प्रेक्षणे-कार्यकाल उपस्थिते भृत्यान्-अनुचरान्, व्यसनागमे-कष्टे प्रासे समुपस्थिते बान्धवान्, आपदि कालेविपत्तावागतायां मित्रम्, विभवक्षये- क्षीणसम्पत्तौ भार्यां - स्त्रियं जानीयात् परीक्षेत ।
अथ सहैव ते चत्वारः सखायो विदेशं गच्छन्तः क्रमेणैकत्र
1. इ नो ऐ आदेश (२-४-८३ सिद्ध.) ।
45