________________
श्री रत्नसारकुमार-चरित्रम् महारण्ये प्राप्ताः। तत्र च पथभ्रान्त्या सर्वेऽपि मिथो वियुक्ता भृशं क्लिश्यन्तो दिनत्रयं परिभ्रेमुः। चतुर्थे दिवसे सर्वे चैकत्र मिलिताः प्रमुदिता एकस्मिन्नगरे समायाताः। तत्र ते सर्वे कृतनित्यक्रिया विधिवत्खाद्यपेयादिसामग्री पक्त्वा यावद् भोक्तुमुपाविशन्, तावत्तत्र कश्चिदेको जिनकल्पी मुनिर्गोचर्य समागत्य धर्मलाभमदत्त। तत्रावसरे शुभपरिणामी श्रीसारः शुभभावनया तस्मै साधवे निर्दोषाहारं ददौ। सत्पात्रदानात्तेन बहुभोग्यकर्माण्यर्जितानि। प्रधानपुत्रवेष्ठिपुत्राभ्यां तद् दानमनुमोदितं, तेन ताभ्यामपि तथाविधं कर्म उपार्जितम्। किन्तु क्षत्रियपुत्रेण सुकृतहीनेनैवं प्रोक्तम्-अरे! मामधिकं बाधते क्षुधा अतो मदर्थ किञ्चिदवशेषणीयमिति। अनेन तु दानान्तरायकर्मबन्धनाद् भोगान्तरायकर्मैव बद्धम्।।
तदनु तहुःखितो जितशत्रू राजा तं पश्चादाकार्य श्रीसारकुमाराय राज्यमदात्। प्रधानपुत्रं प्रधानपदे न्ययुक्त। एवं श्रेष्ठिनः पुत्रं नगर श्रेष्ठिपदे क्षत्रियपुत्रं सेनाधिपतिपदे न्ययुक्त। ततस्ते चत्वारोऽपि स्वस्वपदे तिष्ठन्तश्चिरं सुखमनुभूय मृत्वा स श्रीसारजीवः साम्प्रतं रत्नसारोऽभूत्। तौ प्रधानपुत्रवेष्ठिपुत्रौ मृत्वा रत्नसारस्य पत्न्यौ बभूवतुः। क्षत्रियपुत्रस्तु दानान्तरायकर्मयोगत इह जन्मनि कीरोऽभूत्। यश्चौरो जन्मान्तरे श्रीसारेण मोचितः स तापसव्रतं चिरं परिपाल्य प्रान्ते मृत्वा चन्द्रचूडनामा देवोऽभूत्। अतस्तेनात्र जन्मनि रत्नसारस्य साहाय्यं चक्रे। ___ इत्थं रत्नसारकुमारस्य जन्मान्तरीयं चरित्रमाकर्ण्य सर्वे नृपादयो लोका महताऽऽदरेण सत्पात्रदानं कर्तुं लग्नाः। जिनोदिते शाश्वते धर्मे च महतीं श्रद्धामदधत। रत्नसारोऽपि पुराकृतसुकृतनिचययोगात् पत्नीभ्यां सहितो नानाविधमनुपमं सुखं भुञ्जानो बहूनि धर्मकृत्यानि कृतवान्। तीर्थयात्रारथयात्रादिसद्धर्मकृत्यानि
46