________________
श्री रत्नसारकुमार-चरित्रम् नगराद्वहिरेकान्ते समानीय कुमारस्तस्येदृशीं शिक्षा ददौ-भो महानुभाव! तव राज्ञा वध आदिष्टः। परंतु अहं त्वाममोचयम्। अद्यप्रभृति चौर्य मा कुरु, करिष्यसि चेत्तर्हि स एव दण्डो मिलिष्यति, इत्यादि शिक्षितश्चौरोऽपि तत्सन्निधौ चौर्यमद्यप्रभृति कदापि न करिष्यामीति शपथं-नियममकरोत्। ततः कुमारस्तं प्रच्छन्नतया विससर्ज। अहो महात्मनां माहात्म्यम्, यदपकारिजनेऽपि दयामेव कुर्वन्ति, परन्तु सर्वेषां पञ्च मित्राणि तावन्तो द्विषश्च भवन्तीति निसर्गः। तेन हेतुना कोऽपि कुमारविरोधी नृपकर्णे "कुमारेण शूलिकातश्चौरो मोचितः।" श्रीमता प्रभुणा निर्दिष्टस्य चौरवधस्यान्यथाकरणेन कुमारस्य महानपराधो जात इति सूचयामास। तेन कुपितो नरपतिस्तदैव कुमारमाकार्य तदर्थमधिकं तिरस्कृतवान्। तथाहि-अरे! ममाज्ञाया अपि त्वया भङ्गः कृतः। नृपादेशभङ्गकरणे किं जायते? तन्न जानासि। इत्थं पित्रा तिरस्कृतः कुमारो मनसि खेदं वहन् कुत्राप्यन्यत्र ययौ। तदुक्तम् -
अरण्यं सार निरिकुहरगर्भाश्च हरिभिर्दिशो, दिङ्मातः सलिलमुषितं पङ्कजवनेः । प्रियाचक्षुर्मध्यस्तनवदनसौन्दर्यविजितेः, सतां माने म्लाने मरणमथवा दूरगमनम् ||१||
व्याख्या - सतां-महतां पुंसां माने म्लाने-सत्यपमाने मरणं दूरगमनं-देशत्यागो वा श्रेयस्करं भवति। एतदेव स्पष्टीकरोतिप्रियायाः-कान्तायाश्चक्षुषा लोचनेन विजितैः-पराजितैः सारङ्गद्गै ररण्यं-वनं सेवितम्। तथा प्रियाया मध्यभागेन विजितैर्हरिभिः सिंहैर्गिरिकुहरगर्भाः-पर्वतीयगुहान्तः सेवितम्। प्रियायाः स्तनमण्डलेन विजितैर्दिग्गजैर्दिशः श्रिताः। वदनसौन्दर्येण विजितैः 1. सघन क्यारी में उगे हुए कमल ।
44