________________
श्री रत्नसारकुमार - चरित्रम्
वनिता विलास होय प्रौढता प्रकाश होय
दक्ष जेवा दास होय होय सुख धामनुं । वदे रायचंद एम सद्धर्मने धार्या विना जाणी लेजे, सुख एतो बेएज बदामनुं ||३||
इत्यादि सुधारसप्रवर्षिणीं धर्मदेशनां श्रुत्वा सर्वे जनाः प्रमुदिताः। देशनान्ते च राजा रत्नसारविषये गुरूनपृच्छत्-भगवन्! एष रत्नसारो भवान्तरे कानि कानि सुकृतानि चक्रे येनेदृशीं कीर्ति समृद्धिमप्यनुत्तरां सुखं चानुपममिह जन्मनि भुङ्क्ते, तदा गुरव ऊचिरे - राजन्! श्रूयतां कुमारस्य जन्मान्तरीयं चरितम् ।
इहैव भरतक्षेत्रे राजपुर नामकं नगरमस्ति । तत्र जितशत्रुनामा क्षितिपतिरभूत् । तस्य श्रीसाराभिधानः कुमार आसीत् । तस्य च क्षत्रियपुत्रप्रधानपुत्र श्रेष्ठिपुत्रा मित्राण्यभूवन् । तेषु चतुर्षु मित्रेषु महान् स्नेह आसीत्, कोऽपि कस्यापि वियोगं क्षणमपि नाऽसहत।
अथैकस्यां रजन्यां राज्ञ्याः सौधे खात्रं दत्त्वा कश्चन महांस्तस्करो राज्ञ्याः सारतराणि भूयांसि धनाभरणानि चोरयामास । तदनु तानि चोरितानि धनाभरणानि लात्वा बहिर्गच्छन् कोट्टपालेन दृष्टस्ततस्तं गृहीत्वा दृढं बद्ध्वा च नृपान्तिकमनयत । तमालोक्य राजा तस्य कोट्टपालस्यैवमादिष्टवान् । भोः कोट्टपाल ! एष शूलिकायामारोप्य हन्तव्यः । तदैव तेन स चौरः शिरो मुण्डयित्वा गर्दभोपरि निवेश्य नगरचतुष्पथादौ परिभ्राम्य शूलिकास्थाने नीयमानो मार्गे श्रीसारेण दैवाद् दृष्टः । तदा कुमारः कोट्टपालं तत्स्वरूपमप्राक्षीत्। तदा स यथाजातं चौरवृत्तं व्यजिज्ञपत् । तत्रावसरे दयासागरः श्रीसारो राजकुमारः कोट्टपालमित्याख्यत्अरे! एनं मुञ्च, मम मातुर्धनमसौ चोरितवान्, अतः स्वयमेवाहतस्मै दण्डं समुचितं दास्यामीति । ततस्तं चौरं वधान्मोचयित्वा
43