________________
श्री रत्नसारकुमार - चरित्रम् भिषिक्तवती। तत्प्रभावात्तत्कालमेव तावुभौ मिथो वैरत्वमत्यजताम्। तदनु वृद्धदेवतया तयोर्विमानविषये यथा निरणायि, तथा दर्शयतिदक्षिणस्यां दिशि यानि विमानानि सन्ति, तानि सर्वाणि सौधर्मेन्द्रस्य, उत्तरस्यां यानि विमानानि तेषां सर्वेषां स्वामीशानेन्द्रोऽस्ति । तथा पूर्वपश्चिमदिग्भागे यानि त्रयोदशगोलाकारविमानानि तानि सौधर्मेन्द्रस्य। एवमेव प्राच्यानि प्रतीच्यानि यानि त्रिकोणानि चतुष्कोणानि च विमानानि सन्ति, तेष्वधं सौधर्मेन्द्रस्यार्धमीशानेन्द्रस्य बोध्यानि । एष एव क्रमः सनत्कुमारमाहेन्द्रकुमारदेवलोकयोरप्यस्ति । इत्थं वृद्धदेवतया विभक्तं सर्वं श्रुत्वा तावुभाविन्द्रौ चिरजातमपि वैरं विहाय परस्परं प्रीतिभाजौ जातौ ।
अथैकदा चन्द्रशेखरो देवो हरिनैगमैषिणं देवमपृच्छत्हरिनैगमैषिन् ! अस्ति कोऽपि जनः संसारे, यो हि वशीकृतजगत्त्रयस्य लोभस्य वश्यतां नो धत्ते । देवेन्द्रौ भूत्वाप्यावां लोभग्रस्तचेतसौ परस्परं युध्यावहे, तर्हि मर्त्यानां का गणना ?, हरिनैगमैषी न्यगदत्-भ्रातः ! त्वं सत्यं जगदिथ, परं सर्वेषां मनांसि भाकृष्टानि न भवन्ति । अपरेषां वात्तां किं ब्रवीमि साक्षादिन्द्राणीमप्यालोक्य यस्य चित्तं मनागपि न चलति, तादृश एको वसुसारश्रेष्ठिनः पुत्रो रत्नसारकुमारोऽस्ति, अयं सदैव निर्लोभो विद्यते, किमधिकमधुनापि देवार्पितमपि राज्यं पुराङ्गीकृतव्रतभङ्गभिया न गृह्णाति । यद्राज्यं महान्तोऽपि जीवाः कामयन्ते परं रत्नसारस्तु तुच्छमेव गणयते ।
>
रत्नसार ! हरिनैगमैषिणोक्तमेतदाकर्ण्य चन्द्रशेखरो देवो नामन्यत, ततस्तव परीक्षायै सोऽत्रागत्य पुरा राक्षसीभूय निर्जनमेकं नगरं निर्ममौ सारिकां कृतवान्, आदावेवान्तः प्रविशन्तं त्वां न्यवारयत् । स एव तव राजकीयकीरं सपिञ्जरमपाहरत् । प्रान्ते समुद्रपातादिनानोपसर्गस्ते विहितः । स एव चन्द्रशेखरदेवोऽस्मि ।
40