________________
श्री रत्नसारकुमार-चरित्रम् धर्मे दृढतास्ति, यादृशी क्वाप्यन्यत्र नैवास्ति मया ते भूयानुपसर्गः कृतस्तत्क्षम्यताम्। __पुरा ममाग्रे देवेन्द्रसेनापतिर्हरिनैगमैषी समस्तामरैर्मण्डितायामिन्द्रसभायां त्वां प्रशशंस, तच्छ्रुत्वा सर्वे देवा अतिविस्मिता अभूवन्। इतश्च सौधर्मदेवलोकेशानदेवलोकयोश्च नवाविन्द्रावुदपद्येताम्। तौ मिथो विमानस्यैकस्यार्थे युयुधाते, द्वात्रिंशल्लक्षाणि विमानानि सौधर्मदेवलोके वर्तन्ते, तथेशानदेवलोके विमानान्यष्टाविंशतिलक्षाणि विद्यन्ते। धिगस्तु यदेतावत्सु विमानेषु सत्स्वपि तावुभौ परस्परं माविव चिरमयुध्येताम्। लोभो हि लोके बलवत्तरो हि, करोति सर्वं वशमात्मनो हि । जयेदमुं यो हि स एव लोके, धन्यः प्रशस्यो महतामपीह ||१|| __व्याख्या - लोके-जगति लोभो महाबलवानस्ति, कमपि नोज्झति। सर्व लोकोत्तरसमृद्धिमन्तमपि आत्मनः स्वस्य वशमाधीनं करोति, तर्हि निर्धनानां का वार्ता। अमुं-लोभं यो नरो जयेत्त्यजेत्, स एव पुमान् लोके धन्यः कृतकृत्यः, महतामपि लोकानां प्रशस्यः-स्तुत्यो भवतीति भावः।
लोके युध्यमानमेकम्, अपरो वारयति। एवं देवं तथाभूतं देवो निवारयति। परन्तु यदा लोभाकृष्टचेतसाविन्द्रावेव मिथोऽश्वमहिषाविव युध्येतां तर्हि तौ कः शक्नुयाद्वारयितुम्। तयोरिन्द्रयोयुध्यमानयोः कियान्कालो गतस्तत एकदा वृद्धदेवतयोक्तम् यन्माणवकस्तम्भे जिनेन्द्रदंष्ट्रा वर्त्तते, तस्या वारिणाऽभिषिक्तस्य तत्क्षणं महान्तो दोषाः प्रलीयन्ते। महीयानपि वैरः प्रलीयते। सकलाश्च रोगाः क्षणेन प्रणश्यन्ति। इत्थं विचिन्त्य काचिद् वृद्धदेवता जिनेन्द्रद्रष्ट्राभिषेकजलेन परस्परं जिघांसन्तौ तावुभावपीन्द्राव
1. हन् + सन् - हन्तुमिच्छन्तौ ।
39