________________
श्री रत्नसारकुमार-चरित्रम् प्यन्यद्वरय। यदहं सुखेन कुर्याम्, नियमोऽपि मे नैव हीयेत। राक्षस उवाच-अरे! प्रथमं यत्प्रार्थितं मया तदपूरयित्वा पुनरन्यन्मार्गयितुं किं ब्रूषे?, अनेन वचसा त्वं स्वस्मिन्नेव कुपितो हतभाग्यो वा लक्ष्यसे। यदधुना दुरापमिदं राज्यं त्यजसि। अरे मूढ! यो हि क्रोधादिना जीवान् हिनस्ति युध्यते वा, तत्रैव पापं जायते। देवार्पितस्य राज्यस्य स्वीकारे तव पापं कथं लगिष्यति?, यदिदं राज्यं मया दीयते तत्सोत्साहं कथं नाङ्गीकुरुषे? सुरभिघृतं पातुं बु बु इति शब्दं कथं कुरुषे? प्रथमं त्वया मम मन्दिरमागत्य मदीयशय्यायां सुखेन चिरं सुप्तम्। त्वत्पादतले च मया मर्दिते! ईदृशमकृत्यं ते मयाकारि। त्वं तु मदुक्तं हितमपि न करोषि, तर्हि तत्फलं पश्यतु भवान्। इदानीमेव दर्शयामीत्युक्त्वा क्षणादेव स कुमारं करौ गृहीत्वा गगने निरस्यत्! तदनु समुद्रमध्ये कुमारं प्राक्षिपत्। ततस्तमादाय बहिरानीय राक्षसोऽवदत्-रत्नसार! स्वकीयं कदाग्रहं कथं न जहासि? अहं तु राज्यं समर्पयामि, किमप्यनिष्टं वस्तु न ददामि, तत्सहर्ष किमिति न गृहासि? अतः राज्यं गृहाण, आग्रहं मुञ्च, नोचेद्रजको वसनमिव त्वामस्याः शिलाया उपरि निपात्य निपात्य हनिष्यामि! इति ब्रुवता तेन रत्नसारो गृहीत्वा शिलान्तिकं नीतः, अभाणि च-मदुक्तं कुरुष्व, मम हस्तान्मुधा मा म्रियस्वेति। कुमारोऽप्येवमुवाच-राक्षस! यद्रोचते, यच्च चिकीर्षसि, तत्सत्वरमेव क्रियताम् मरणान्तेऽप्यहं गृहीतव्रतं न त्यक्ष्यामि। ईदृशं कुमारोक्तं श्रुत्वा सोऽधिकं प्रससाद, तदैव राक्षसरूपं त्यक्त्वा देवतारूपं व्यधात् ततः स्थलजैरिजैश्च रम्यैः सुरभिकुसुमैः कुमारमानर्च। अर्थात्कुमारोपरि सुकुसुमानां वृष्टिमकृत। जयजयारावं कुर्वन् स राक्षसः कुमारसमीपमागत्यैवमाचख्यौ। भोः कुमार! त्वं धन्योऽसि, मान्योऽसि, श्लाघ्योऽसि, किञ्च त्वादृशेन पुरुषरत्नेनैवेयं पृथ्वी रत्नगर्भेत्युच्यते। तवेदृशी