________________
श्री रत्नसारकुमार-चरित्रम् मयार्पितमेकच्छत्रमिदं राज्यमकण्टकं गृहाण। रत्नसारो मनसि चिन्तयति-असौ राक्षसपतिर्मे राज्यमर्पयति। यदिह लोके सकलसौख्यप्रदमतिदुरापमस्ति यच्च सदैव महता सुकृतपुञ्जनाप्यते। भाग्यहीनैः पापिभिः स्वप्नेऽपि नैव लभ्यते। परमेतत्पुरा मम परित्यक्तमस्ति पुराऽहं सद्गुरोः सन्निधौ परिग्रहपरिमाणं व्रतमङ्गीकृतवांस्तदा राज्यं न ग्रहीष्यामीत्यपि प्रतिज्ञातम्। तदधुना कथं त्यजामि, व्रतभङ्गकारिणां महान् दोषो लगतीति शास्त्रे निरुक्तमस्ति। अधुना मया किं कर्त्तव्यम्? महासङ्कटो मे पतितः। अहो उभयतः पाशरज्जुरिवैतद्वयमुपस्थितं लक्ष्यते। यदि राज्यमिदं गृह्णामि, तर्हि महापापीयान् भवामि, पुरागृहीतव्रतभङ्गात्। अनङ्गीकारेऽपि स एव दोषः, एतदीयप्रार्थितस्य भङ्गात्। हा दैव! किं जातम्। किंकर्तव्यतामूढतामुपगतोऽस्म्यहं। प्रान्ते कुमार एवमुवाच-भो देव! अतोऽन्यत्प्रार्थय? एतत् कत्तुं नार्हामि। यतोऽहं गुरुसन्निधौ तदत्यजम्, पुरा त्यक्तस्य राज्यस्याङ्गीकारे व्रतलोपो भविष्यति। ततश्चाधर्मो मां नरकं नेष्यति। यत्स्वर्णाभरणं कर्णावेव त्रोटयेत, तेन किं प्रयोजनम्? येन कृत्येन मम धर्मो न लुप्येत, तदेव स्वार्थ परार्थं वा मया कत्तुं शक्यते इति निश्चयं जानीहि।
राक्षसोऽवदत्-रत्नसार! शरीरेऽस्मिन् लोभलज्जादाक्षिण्यगाम्भीर्यादयः सर्वेऽपि तिष्ठन्ति! यः पुमानुत्तमोऽस्ति स तु प्राणान् सुखेन जहाति, परन्तु दत्तं वचनं नैव परावर्त्तयति, यद्वदति तत्करोत्येव। तत्र दोषादोषौ नैव विचारयति! कुमारोऽवदत्देव! त्वया साधूक्तं, परन्तु मया पूर्व गुरुसन्निधौ नियमोऽकारि, यदहं पापानां निलयमधर्मस्य च हेतुं राज्यं कदापि न ग्रहीष्यामीति। यो हि नियमं लात्वा परित्यजति, तस्य नियमविराधनान्महान् दोषो लगति, पश्चात्तापश्च जायते। महाभाग! इति हेतोर्दुष्करम1. अति दुःखेनाप्यते यद् । 2. अमुष्मात् ।
37
-