________________
श्री रत्नसारकुमार-चरित्रम् किं दद्यात्। अथवा मनुष्यतः प्रार्थनीयं देवानां किमपि नैवास्ति, तथापि प्रसन्नमेनं नरमहं किमपि याचेय इत्यवधार्य मधुरस्वरेण स कुमारमित्याख्यत्-भोः! इह संसारे यः पुमान् परस्मै वाञ्छितमर्थ प्रयच्छेत्स त्रिलोक्यामपि विरल एवास्ति, किञ्च याचनात्सर्वे सद्गुणा नरस्य प्रणश्यन्ति। अत उक्तम् -
लघुर्दूली तृणं तस्यास्तृणातूलं ततोऽनिलः । ततोऽपि याचकस्तस्मादपि याचकवञ्चकः ||१||
व्याख्या - लोके सर्वतो लघीयसी धूली-रजोऽस्ति तस्मादपि लघु तृणमस्ति, अस्मादपि लघु तूलमर्कतूलं भवति। इतोऽपि लघुरनिलो-वायुरस्ति, तस्मादपि लघुः कनिष्ठो याचकः-अर्थी भवति, याचकादपि लघुर्याचकानां वश्चकः-प्रतारको भवति। अन्यदप्याह
परपत्थणापवन्यूँ मा जणणि, जणेसु एरिसं पुत्तं । मा उअरे वि धरम, सुपत्थियभङ्गो को जेण ||१||
व्याख्या - मातः! यः परमन्यं याचेत, ईदृशं पुत्रं मा जनिष्ठाः। तथा यो हि परप्रार्थनं विफलीकुर्यात्, तादृशं पुत्रं तूदरे गर्भे मा धृथाः नैव धारय।
अतो ब्रवीमि कुमार! यदि याचनां नो भञ्ज्यास्तर्हि त्वां किमपि याचेय। कुमारोऽवदत्-भो देव! मत्साध्यं कार्यमाज्ञापय। राक्षसेश्वर आह-यदेवमस्ति तर्हि श्रूयताम्। अस्या नगर्या राजा भव, अहं ते राज्यं ददामि। एतद्राज्यमासाद्य यथेच्छं सुखं भुझ्व, अहं किल तव दिव्यां समृद्धिमर्पयिष्यामि दासवत्सदा त्वां सेविष्ये च। अन्येऽपि सकलाः क्षितीशास्ते वशंवदाः स्थास्यन्ति। अतो 1. लोकानां त्रयाणां समा. इति त्रिलोकी तस्यां (द्विगु.) । 2. आपन्नं । 3.
सुप्रार्थित । 4. वशं वदति [ख] ५-१-१०७ सिद्ध. ।
36