SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ श्री रत्नसारकुमार-चरित्रम् महाभाग! मया तेऽतिगर्हितं कृतं तदधुना क्षमस्व, कृतागसि मयि प्रसीद, किमप्यभीष्टं वस्तु वरय। यतो देवदर्शनं सर्वस्य सफलमेव भवति, विफलं कस्यापि नैव जायते। रत्नसारोऽवादीत्-भो देव! ममाहतशाश्वतधर्मप्रभावात्सर्वं विद्यते, कस्याप्यपेक्षा नास्ति, तथापि यदि त्वं किमपि दातुमीहसे, तर्हि मे नन्दीश्वरमहातीर्थयात्रां कारय? एतदेव त्वामभियाचे। ततश्चन्द्रशेखरदेवता तथास्तु, इति निगद्य सपिञ्जरं कीरं कुमाराय दत्तवान्। ततः पश्चात् नन्दीश्वरमहातीर्थयात्रां कारयित्वा सकीरं रत्नसारं कनकपुरं नगरमनैषीत्। तत्र च कनकध्वजनृपाग्रे रत्नसारमाहात्म्यं व्याख्याय सन्मान्य च मिष्टवचनादिना स देवः स्वस्थानमगात्। अथ कन्कध्वजस्य राज्ञः श्वशुरस्याज्ञया सामन्तप्रधानादिकतिपयोत्तमपरिवारयुतः पत्नीभ्यां सहितः कुमारः स्वनगरी प्रति चचाल। मार्गे च प्रतिग्रामेषु राजभिः सत्कृतः कतिपयदिवसै रत्नसारो रत्नविशाला नगरीमाससाद। तत्रावसरे महत्या समृद्ध्या समागतं रत्नसारमवगत्य समरसिंहनरपतिवसुसारश्रेष्ठिप्रमुखाः सर्वे पौरास्तत्सम्मुखमागताः। महामहेन कुमारं पुरप्रवेशमकारयन्। ततः सुखेन समुपविष्टेषु पौरजनेषु नृपप्रमुखेषु सर्व कुमारचरित्रं स कीरो व्याजहार। तदाकर्ण्य प्रमोदमापन्नाः सर्वे जनास्तुष्टुवुः। अथ पत्नीयुगलसंयुतो रत्नसारः शाश्वतमार्हतं धर्म वर्धयन् सांसारिकमनुपमं भोगं भुजानः कालं सुखेन गमयन्नासीत्। अथैकदा तत्र नगरे रम्योद्याने चतुर्ज्ञानधरो धर्मपतिसूरीश्वर आययौ। तस्य वन्दनायै रत्नसारप्रमुखाः पौरजनास्तत्राजग्मुः। समरसिंहभूपोऽप्यागतः सपरिवारः। उपाविशंश्च सर्वे स्वोचितस्थाने। आचार्यवर्यश्च धर्मदेशनां प्राह - धर्मार्थकाममोक्षाणां, यस्यैकोऽपि न विद्यते । अजागलस्तनस्येव, तस्य जन्म निरर्थकम् ||१|| 41
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy