________________
श्री रत्नसारकुमार - चरित्रम्
माकर्ण्य सञ्जातविस्मयः कुमार आख्यत्-सारिके! त्वयोक्तं सर्वं पथ्यं तथ्यं च मन्ये, परन्तु मनागपि ततो राक्षसान्नाहं बिभेमि, इत्युक्त्वा राक्षसस्य बलपरीक्षार्थी कुमारस्तत्र नगरे रणक्षेत्र इव प्राविशत्, अकुतोभय इव स तत्र नगरे परिभ्रमन् कुत्राप्यापणे चन्दनतरूणां राशिमपश्यत् । क्वापि स्वर्णराशिना भृतमापणम्, तथा परस्मिन्नापणे कर्पूराणां, क्वचित्पूगीफलानां क्वचिच्च नारिकेरफलानां निचयं क्वचिच्च सुगन्धिद्रव्यैः परिपूर्णानि गान्धिकानामापणान्यद्राक्षीत् । कानिचिच्च दिव्यादिव्यविविधजातीयवस्त्राणामन्नादीनामापणानि ददर्श । परन्तु क्रयविक्रयौ कुर्वन्तमेकमपि जनं स नापश्यत्कुत्रापि । अथैवमनुक्रमेण राजपथेन गच्छन् नगरीशोभां वीक्षमाणः स राजसदने समायातः । तत्रैकः सप्तभौमः सौधः प्रैक्षि तेन । तत्र सप्तमं भौमं गत्वा नानाजातीयसद्रत्नरचितामपूर्वामेकां शय्यामालोकत। तस्यां च निर्भीः कुमारः सुखेन स्वकीयामिव सुष्वाप । अथ मानुषपदसञ्चारादिनाऽऽगतं जनं विदित्वाऽतिक्रुद्धः स राक्षसस्तत्रागात् । तत्र सुखेन सुसं रत्नसारमालोक्य स दध्यौ । अहो अत्याश्चर्यमेतत्, यत्र केऽपीतरे लोका मनसापि गन्तुं नेहन्ते । तत्र दुर्गमे स्थाने समागतोऽसौ पुमान् धृष्ट इव निर्भीकः कथं सुप्तोऽद्य दृश्यते । नूनमेष मे महान् विरोधी लक्ष्यते । एनमहं केन प्रकारेण हन्याम्, किमहं तालफलमिव मस्तकमस्य त्रोटयेयम्, अथवा नखैरेव विदारयेयम्, किमु गदयानया सञ्चूर्णयेयम्, किमु महत्या क्षुरिकया खण्डशः कृन्तानि, किमु प्रज्वलिताग्नौ प्रक्षिपाणि, किमाकाशे समुत्क्षिपाणि, किमब्धौ मज्जयानि, किमजगर इवैनमधुनैव गिलानि, किंवा ममाऽऽलये
,
1. प्र + ईक्ष् (कर्म - अद्य - उ. पु. ए . ) । 2. निर्गता भीः यस्य सः । 3. कृत् ६.पर. काटना (आज्ञार्थ प्र. पु. ए) मुचादिषु 'न्' आगम ।
4. गृ ६. गण. पर. गिर् र् नो ल आदेश विकलवे २.३.१०२ (सिद्ध. )
33