________________
श्री रत्नसारकुमार-चरित्रम् प्रयत्नो वैफल्यमेव व्रजति। सर्वथासौ तस्करो महारोग इव दुर्ग्रहः प्रतीयते। अतोऽहं तं ग्रहीतुं न शक्नोमि। ततो नृपालः स्वयमेव खड्गपाणिस्तस्य चौरस्य ग्रहणाय निरगच्छत्। अथैकस्यां रजन्यां कस्यचिच्छ्रेष्ठिनो गृहे खात्रं कृत्वा प्रचुराणि सारभूतानि धनानि लात्वा यान्तं तं स्तेनशिरोमणिं राजाऽपश्यत्। ततस्तत्पृष्ठे राजाऽधावत्। अग्रे चौरस्तत्पृष्ठे राजा, इत्थं कियदूरं तावुभौ चेलतुः। स चौरः क्षितिपतेर्दृशं वञ्चयित्वा कस्यचित्तत्र सुसस्य तापसस्य समीपे सर्वाणि धनानि मुक्त्वा स्वयमुद्याने प्राविशत्। तदनु तत्रागतो नृपश्चोरितानि द्रव्याणि दृष्ट्वा तं सुसं तापसमेव चौरममन्यत। नूनमेष तापसः स्तेनोऽस्ति। अयमेव मम नगर्याः सर्वस्वमचूचुरत्। अधुनात्र कपटनिद्रया निद्राति। इत्यवधार्य नृपस्तमेवमवोचत्-रे दुष्ट पापिष्ठ? तापसीभूय मम नगरी लुण्टयसि, त्वमेव प्रतिरात्रं खात्रं विधाय सर्वेषां धनान्यपहरसि। इदानीं साधुवेषेण सुसोऽसि, अत इदानीमेव त्वां दीर्घनिद्रायां स्वापयामि। पश्य पश्य स्तेनस्य फलं कीदृशं भवतीति। अथात्मसुभटेन निर्दोषमेव तं तापसं स्वस्थानमानय्य प्रभाते तस्य हननाय कोट्टपालमादिशत्। ततो नृपादिष्टः स तापसं मुण्डयित्वा गर्दभोपरि संस्थाप्य सर्वत्र नगरे चतुष्पथादौ भ्रामयित्वा शूलिकायामारोपितवान् स एव मृत्वा राक्षसोऽभवत्। ततः प्राग्वैरमनुसन्धाय प्रकुपितो राक्षसः प्रथमं राजानं जघान। लोकांश्च सर्वान् नगरानिष्काशितवान्। राजा प्रमादवशात्तथा कृतवान्। तेनैव दोषेण समस्ताः प्रजाः खिद्यन्ते। अद्यापि यः कोऽपि पुमानन्तः प्रविशति तं स घातयति। यतः-अन्तःपुरमागतं पुरुषं कोऽपि नैव सहते। भोः कुमार! अतस्त्वामन्तःपुरे गन्तुं निवारयामि। यदि कदाचित्स त्वामपि हन्यात्तदाहं तद् द्रष्टुं न शक्नुयाम्। इति सारिकावचन1. सर्वेषां स्व-धनं । 2. आ+नी+णिग्+यप् (प्रेरक सं.भू) । 3. स्मृत्वा ।
32