________________
श्री रत्नसारकुमार-चरित्रम् कदाचित्प्रासे काले मिलिष्यत्येव सः। तमधिगत्यैव परावर्तिष्ये, नो चेत्कदाचिदपि पश्चान्नैव परावर्तितव्यं मयेति निर्धार्य कुमार इतस्ततः परिभ्राम्यन् बहुधा कीरमन्वेषयामास। परन्तु कुत्रापि तच्छुद्धिं नातवान्। यतः आकाशे यद्वस्तु गतं तद्भूमौ मार्गितेऽपि कथमासादयेत्तथापि कुत्रापि स मिलिष्यतीत्याशया रत्नसारः सकलं दिनं सर्वत्र बभ्राम। सन्ध्या काले समागते तेन कुमारेण वप्रतोरणध्वजादिसुमण्डिता मणिमयसौधचयशोभायमाना नगर्येका ददृशे। तस्या अद्भुतां शोभां विलोक्य चमत्कृतचेताः कुमारो नगरीसमीपमागतः। तत्र च दूरत एवापूर्वा तच्छोभां पश्यन् नितरां स तुतोष। अथ मुख्यद्वारे समागत्य स यावदन्तः प्रविशति तावत्तत्रोपविष्टा काचिदेका सारिका तमेवमभाषत। भोः कुमार! अन्तर्मा गाः, इत एव पश्चाद् याहि। कुमारोऽवदत्-अयि सुन्दरि! सारिके! मामन्तर्यान्तं कथं निषेधयसि? तदा पुनरूचे सा-हे सुपुरुष! मद्वचस्यवज्ञां मा कृथाः अहं ते कल्याणमिच्छामि, अतस्तत्र प्रवेष्टुं वारयामि। यदि तत्कारणं शुश्रूषसि, तर्हि श्रूयताम्।
इदं हि रत्नपुरं नाम नगरमस्ति। अत्र पुरन्दर इव पुरन्दराभिधानः प्रजापाल आसीत्। न्यायनिष्ठे प्रजाः शासति सति तस्मिन् कोऽप्येको महाचौरो नानावेषधारी समागतः प्रतिरात्रं चोरयन्नासीत्। ततोऽचिरादेव समृद्धिशालिनोऽपि लोका निर्धना अभूवन्, ततः पौरप्रधानजना मिलित्वा नृपमेतदाचचक्षिरे। तत्छुत्वा कुपितः क्षितिपतिः कोट्टपालमाकार्य सरोषमाह-रे रक्षकाः! यूयं रात्रौ क्व तिष्ठथ? कथं वा युष्मासु रक्षकेषु सत्स्वपि धनिनां गृहेषु चौर्य जातं जायते च?, तत्कारणं निगदत। नो चेदधुना सर्वेषां वः प्राणदण्डं दास्यामि। रक्षका ऊचुः-नाथ! वयं सदैव सावधाना रक्षामः। तस्य निग्रहणाय सर्वे उपायाः कृताः। परं समस्तोऽपि 1. शोधयित्वा । 2. पुन र्गमिष्यामि ।
31