________________
श्री रत्नसारकुमार-चरित्रम् तथा शत्रूणां प्रचण्डा ये भुजदण्डास्तेषां बलं-पराक्रमं क्षिणोतिनाशयति। इत्थं धर्म एव सर्वेषां सर्वार्थसाधनमिति स एव सञ्चेतव्यः। ___अथैकस्यां रजन्यां सुखेन शयान आसीत्कुमारः। सर्वाणि द्वाराणि पिहितान्यासन्। तथापि कश्चिद् दिव्याकृतिको दिव्यवासाः सर्वाभरणमण्डितगात्रः खड्गपाणिश्चौर्यकुशलः कोपादरुणलोचनः पुमान् गुप्त्या तद्गृहान्तराययौ। तावत्कुमारो जजागार। यतो महीयांसोऽचिरमेव स्वपन्ति जाग्रति च। ततः स चिन्तयति-अहो सत्यपि सकलद्वाराऽऽपिधाने कथमेष महाचौर इव समायातो दृश्यते। इत्यादि यावन्निचिनोति कुमारस्तावत्स वक्ति-कुमार! यदि वीरोऽसि तर्हि सज्जीभूय मया सह युध्यस्व। वणिग्जातीयस्य तव कियदस्ति बलमित्यहं ज्ञास्यामि। अतिधूर्तस्य शृगालस्य शौर्य मृगपतिरिव तव बलमहं कियन्तं कालं सहेय। इत्थं जल्पनेव स तत्कालमेव कुमारोऽपि कोशादसिमाकृष्य तत्पृष्ठमधावत्। अग्रे पुमान् तत्पृष्ठे कुमार इत्थं तावुभौ मिथः पश्यन्तौ कियद् दूरं जग्मतुः। चौरस्यानुपदं तं, जिघृक्षुः पुमान् यथा याति तथा कुमारस्तत्पृष्ठं गतः। अत्रान्तरे स पुमान् कीरमादाय यदा व्योम्नि समुदडीयत, तदाऽऽकाशे तं घुमासं कियडूरं व्रजन्तमद्राक्षीत् कुमारः। अदृश्ये च तस्मिन् मनसि विस्मयं दधत्कुमार एवमचिन्तयत्-नूनमनेन केनापि देवेन विद्याधरेण दानवेन भूतेन महीयसा मद्वैरिणा वा भाव्यम्। योऽस्तु सोऽस्तु, परन्तु मदीयराजकीरमपहृत्य गत इति महदाश्चर्यमभूत्। अये प्राणप्रिये! कीर! तव किमभूत्? मां विहाय क्व गतोऽसि? त्वां विना मम का गतिर्भविष्यति, इति विलपन् रत्नसारः पश्चादेवं दध्यौ-अरे चित्त! खेदं मा गाः, अलमिदानीं शोकेन। शोकेन गतं वस्तु कस्यापि न मिलति। अतो धैर्यमालम्ब्य स्थलान्तरे तदन्वेषणं विधातव्यम्।
30