________________
श्री रत्नसारकुमार-चरित्रम् सुखमनुभवन् न्यवात्सीत्।
अथ चक्रेश्वर्या आदेशेन चन्द्रचूडो देवः कनकपुरे गत्वा कनकध्वजं नृपं पुत्र्योः कुमारेण सह महामहेन सम्पादितविवाहवर्धापनं व्यजिज्ञपत्। तच्छुत्वा हृष्टो नृपो मन्त्रिसामन्तसाधुकारप्रमुखाऽपरिमितपरिवारयुतस्तत्रागतः। तमागतं क्षितिपतिमुभे पुत्र्यौ सकीरो रत्नसारश्च नृपाभिमुखमागत्य विधिवत्प्राणमत्। कुमाररूपमालोक्य स राजा नितरामतुष्यत्। ततो देव्याः प्रभावेण कुमारः सपरिवारं श्वशुरं तत्रागतमभोजयत्। नानाविधदिव्याशनपानमिष्टवचनैस्सुप्रसन्नः क्षोणिपालः कुमारमेवमाख्याति स्म महाभाग्यशालिन्! भवान् जामातास्ति, सकलपौरजनः श्रीमन्तं भवन्तं दिदृक्षति। अतो मदीयनगरमागत्य पुनीहि। अथ भूपानुरोधवशतः कुमारस्तेन सहैव कनकपुरनगरमागतः। महामहेन जामातरं पुरं प्रावेशयद्राजा। ततः सुसज्जिते सुन्दरतरे महासौधे वधूभ्यां सह रत्नसारस्तस्थिवान्। शुकोऽपि स्वर्णपिञ्जरे तिष्ठन् सुखमनुभवनासीत्। इत्थं पुण्यप्रभावतः कुमारो नानाविधमनुपमं सुखं भुञ्जानः सुखेन दिनानि गमयन्नासीत्। उक्तं च -
स्वा राज्यसोख्यमतुलं नयते नराणां, राज्यं ददाति विमलं यश आतनोति । शत्रुप्रचण्डभुजदण्डबलं क्षिणोति, किं किं न साधयति कल्पलतेव धर्मः ||१|| व्याख्या - नराणां धर्मः कल्पलतेव-कल्पतरुमिव किं किं न साधयति-जनयति-ददातीति, तदेव समर्थयते-अतुलं-निरुपम स्वाराज्यसौख्यं स्वर्गीयसुखं नयते-प्रापयति, प्रान्ते। इह लोके तु राज्यं ददाति, निर्मलं यशः-सुकीर्तिं च आतनोति-विस्तारयति, 1. द्रष्टुमिच्छति । 2. स्वर् (अ) स्वर्ग ।
29