________________
श्री रत्नसारकुमार-चरित्रम् तथा होडकरणे, भृत्यादेर्वेतनदाने, गृहकरणे, धर्मकृत्ये, रोगस्य शत्रोश्च मूलोच्छेदनकरणे कालक्षेपः-कालस्य-समयस्य क्षेपो विलम्बो न शस्यते प्रशस्तो न भक्तीत्यर्थः। तर्हि कालक्षेपः क्व प्रशस्यते?, इत्याह -
क्रोधावेशे नदीपूरप्रवेशे, पापकर्मणि ।
अजीर्णभुक्तो भीस्थाने कालक्षेपः प्रशस्यते ||२|| व्याख्या - क्रोधस्य कोपस्याऽऽवेशे वेगे, नद्या पूरे प्रवेशकरणे, पापाचरणे, सत्यजीर्णे भोजने, भयस्थाने गन्तुं कालक्षेपः कर्तव्यः सर्वैरिति भावः।
तदनु सा तिलकमञ्जरी आह- भोः पुरुषसिंह! त्वादृशे पुरुषोत्तमे महोपकारके नरेऽदेयं किमपि नास्ति। यद्यपि सर्वस्वदानेऽपि त्वदुपकृतेः प्रतिक्रियां विधातुमहं नार्हामि, तथापि यदस्ति तद्ददामीत्युक्त्वा कुमारकण्ठे मौक्तिकी मालां परिधापितवती, सोऽपि सहर्ष सादरं तां स्रजं पर्यधत्त। पुनरेका कमलस्रजं तस्य कीरस्याधिग्रीवं न्यधत्त। तदा चन्द्रचूडो देवो जगाद-भोः कुमार! पुरा तुभ्यमिमे कन्ये दैवेन दत्ते, साम्प्रतमहमपि ते ददामीति। ततो देवता तयोः कन्ययोः पाणिग्रहणं रत्नसारेण सहाऽचीकरत्। पश्चात् स चन्द्रचूडदेवो रूपान्तरं कृत्वा चक्रेश्वरीपार्श्वमागत्य सकलमुदन्तमुवाच। तच्छुत्वा चक्रेश्वरी देवी सपरिवारा विमानमारुह्य तत्रागतवती। रत्नसारो वधूभ्यां सह तां प्रणनाम। सापि झटिति कुलं ते वर्धतामित्याशिषं तस्मा अदात्। तदनु सा देवी विवाहोपयोगिनी सर्वां सामग्री विरचय्य महामहेन ते राजकुमारों समुदवाहयत्। ततश्चक्रेश्वरी सप्तभौमं दिव्यं सौधं निर्माय निवासाय कुमाराय ददौ। तत्र सौधे रत्नसारस्ताभ्यां स्त्रीभ्यां सह निरुपम 1. ग्रीवायामिति (अव्यय-समास) । 2. वि+र+णिग्+यप्
28