________________
श्री रत्नसारकुमार - चरित्रम्
खड्गं कोशे न्यधत्त । विद्याबलेन तां हंसीं कृत्वा स्वर्णपिञ्जरेऽस्थापयत्। अनुक्षणं सादरं प्रियवचनैस्तोषयन्नासीत् । ततोऽन्यदा विद्याधरराजस्य पत्नी कमलमाला तां हंसीं प्रार्थयन्तं स्वपतिं दृष्ट्वा मनसि जातशङ्काऽचिन्तयत्- किमेतत् ? यदसौ मत्तोऽप्यधिकमेनां हंसीमभ्यर्थयते । ततः सा निशि स्वेष्टदेवतामाराध्यैतदपृच्छत् । सा विद्या प्रत्यक्षमवादीत् सर्वमेतद्वृत्तान्तम् ।
ततः सा कमलमाला सपत्नीद्वेषात्तां हंसीं पिञ्जराद्बहिः कृतवती। पिञ्जरान्निर्गता सातिभीता शबरसेनाख्यकाननदिशि गच्छन्ती मार्गे श्रान्ता सती त्वदङ्केऽपतत्। भोः कुमार ! सैवाहं हंसी, स एवासौ विद्याधरराजः, यस्त्वया पराजितः पलायनमकृत। एतदाकर्ण्य तिलकमञ्जरी विलपति अयि भगिनि ! त्वमेकाकिनी तापसीभूय निर्जने वने कथमासीः ?, कथं वा तिर्यग्योनौ पक्षिणीभूय नानाक्लेशं सहमानाऽधुना वर्त्तसे? एतेनानुमिनोमि, यद् भवान्तरे नूनं महान्ति पापानि चिकयिथ । हन्त ! कथमिदानीं तिर्यक्त्वं ते प्रणश्यति । इत्थं विलपन्ती तिलकमञ्जरी यावदासीत्, तावच्चन्द्रचूडदेवः स्वशक्त्या तां हंसीं कन्यामकार्षीत् । तदा ते द्वे भगिन्यौ चिरान् मिलित्वा परस्परं मुमुदाते । अस्मिन्नवसरे रत्नसार आहतिलकमञ्जरी ! त्वमिदानीं भगिन्या दर्शनजन्यमसीममानन्दमनुभवसि । मह्यं किं वर्धापनं दित्ससि ? धर्मार्थोचितदाने विलम्बो न विधेयः । तदुक्तम् -
लशौचित्यादिदानर्ण- हुड्डासूक्तभृतीगृहे ।
धर्मे रोगे रिपुच्छेदे, कालक्षेपो न शस्यते ||१||
व्याख्या - लञ्चस्य-अस्मिन्कार्ये तवैतावद्दास्यामीति पुराङ्गीकृतस्य करणे, तथोचितादि पञ्चधा दानकर्मणि, ऋणशोधनकरणे,
1. अनु+मि ५. ग. पर० । 2. दातुमिच्छसि ।
27