________________
श्री रत्नसारकुमार-चरित्रम् समायातमतिथिमिव प्रसुसं नो हिनसानि। यतो हि गृहागतं रिपुमेव नैव हन्यादित्यादि नीतिवाक्यानि शिक्षयन्ति। तदाह
आगतस्य निजगेहमप्यरेोरवं विदधते महाधियः । मानमात्मसदनमुपेयुषे, भार्गवाय गुरुरुच्चतां ददो||१||
व्याख्या - महाधियः महती धीर्बुद्धिर्येषां ते, मतिमन्तः पुमांसो निजालयमागतस्य, अरेः-शत्रोरपि गौरवं-सत्कारमेव विदधतेकुर्वते। तथाहि-आत्मसदनं-मीनाख्यराशिम् उपेयुषे-प्रासवते समागताय भार्गवाय-शुक्राय गुरुः-बृहस्पतिः, मान-सत्कारम् मानाहमिति यावत् उच्चतां-महत्त्वं ददौ-दत्तवान्। अयमाशयःमीनराशिगुरोरस्ति तत्रागतं नैसर्गिकं वैरमपि, गुरुरुच्चत्वमेव नयति। तथा स्वसदनसमागतः शत्रुरपि सत्कार्य एवास्ति महतामिति।
यावदसौ स्वेच्छया जागृतो न भवेत्तावदस्य किमपि न कर्तव्यम्, पश्चादस्य यथायोग्यं भविष्यति, तथा विधास्यामि, इति निश्चित्य स राक्षसः स्वस्थानमागात्। पुनः कियत्कालानन्तरं प्रभूतभूतादिगणैः सह स तत्रागत्य पूर्ववत्सुतमेव कुमारमैक्षत। अत्रावसरे स जगाद-अरे निर्भीक! निर्लज्ज! यदि जिजीविषसि, तर्हि सत्वरमेवेतः पलायस्व, नो चेन्मया सह युध्यताम्। इति राक्षसवच आकर्ण्य जागृतः कुमार आह-राक्षसराज! मम निद्राभङ्गं कथमकार्षीः? सुखसुसस्य निद्राभङ्गकरणे कियान् दोषो लगति। तन्न जानासि किम्? उक्तं च - धर्मनिन्दी पक्ति-भेदी, निद्राच्छेदी निरर्थकम् । कथाभङ्गी वृथापापी पञ्चैतेऽत्यन्तपापिनः ||१||
व्याख्या - यो हि धर्म निन्दति, यश्च पङ्क्ति भिनत्ति, अर्थादेकत्र पङ्क्तौ भुञ्जानानामेकस्मै ददाति, परस्मै न ददाति,
34