________________
श्री रत्नसारकुमार - चरित्रम् स देवो मुद्गरेण ताडितवान् । तेन स महतीं पीडामाप, केवलं पीडैव नाभवत्, अपि तु बहुरूपकरी विद्यापि तत्क्षणमेव मुज्झितवती । तदा स दध्यौ - अहो महाद्भुतं जातम्, सर्वा सेना नष्टा, विद्यापि मे गता, मयेदानीं किं विधेयम् ? एष कुमारः स्वभावादेव दुर्जयः प्रतीयते । अधुना तु देवतासहायतां नीतो विशेषतोऽस्ति दुर्धर्षः । अतः प्राणत्राणमेव श्रेयस्करमिदानी - मित्यवधार्य द्रुतमेव स ततः पलायाञ्चक्रे । नष्टे स्वामिनि समस्ता चमूरप्यनश्यत्। इत्थं यदसौ रत्नसारः प्रबलमप्येनं विद्याधरेन्द्रमजैषीत् तत्सकलं पूर्वकृतसद्धर्मस्यैव महिमास्ति। यो हि धर्मनिष्ठो भवति, तस्य सदैव विजयो जायते । तदाह
'धर्मेण हन्यते व्याधिग्रहो धर्मेण हन्यते । धर्मेण हन्यते शत्रुर्यतो धर्मस्ततो जयः ।'
इत्थं दुर्जयं प्रचण्डदोर्दण्डं विपक्षं विजित्य रत्नसारस्तेन चन्द्रचूडाख्यदेवेन सह श्रीमदादिनाथ भगवतो मन्दिरमगात् । अथेदृशमद्भुतं कुमारस्य चरित्रं निरीक्ष्य चमत्कृता, पुलकिताङ्गी, तिलकमञ्जरी, मनस्येवमचिन्तयत्। अहो ! कोऽप्यसौ युवा पुरुषरत्नं प्रतीयते । यद्यसावेव मे भर्त्ता स्याद् भगिनी च मे मिलेदत्रैव तर्हि भाग्यं फलितं मंस्ये, जीवनं च साफल्यं व्रजेत् । अथ तिलकमञ्जर्याः पार्श्वतस्तां हंसीं लात्वा कुमार एवमपृच्छत्! अये हंसि! कासि ?, कथं वा विद्याधरस्त्वामगृह्णात् ? मनुष्यभाषां कथं ब्रवीषि ? एतत्सर्वं कथय। हंसी जल्पति-नाथ! तव पुरुषरत्नस्याग्रेऽशेषमात्मवृत्तं निगदामि वैताढ्यपर्वते रथनूपुरं नाम नगरमस्ति । तत्र तरुणीमृगाङ्कनामा विद्याधरराजो राज्यं कुरुते । स चैकदा कनकपुरनगरोपरिष्टाद् गच्छन् कुत्रचिदुपवन आन्दोलनक्रीडनं विदधतीमतिरूपवतीमशोकमञ्जरीं कन्यामपश्यत् । तस्या लोकोत्तर
-
24