________________
श्री रत्नसारकुमार - चरित्रम्
विद्याधरराजकृतः शस्त्रास्त्रप्रहारः कुमारविषये स्वीयसुकृतयोगतो देवमाहात्म्यतश्च विफल एवाभूत्। धर्मपुञ्जप्रभावात्सदैव प्राणिनः सुखमधिगच्छन्त्येव। यतः
-
पुण्यप्रभावादस्यः प्रयान्ति भवन्ति देवाः समरे सहायाः । हालाहलो याति सुधामयत्वं नास्ति पुण्यादपरो विशिष्टः ||१||
व्याख्या - पुण्यस्य प्रतापात् शत्रवो विना युद्धेनैव पलायन्तियथा माण्डलिकनृपैः सह चण्डप्रद्योतनृपोऽभयकुमारस्य पुण्यादनश्यत्। देवा युद्धे सहायं कुर्वन्ति - यथा चक्रवर्ति-वासुदेवादिपुरुषोत्तमानाम् रणे देवाः सहायं कुर्वन्ति। तत्काल प्राणनाशको विषोऽप्यमृतत्वं भजति यथा श्रेष्ठिना प्रेषिते लेखे 'विषं देहि ' स्थाने 'विषां देहि' मात्राधिक्यं जातं दैवात् । पुण्यात् श्रेष्ठं वस्तु नास्त्यन्यदिह । अतो यावन्मोक्षं न भवेत्, तावत् पुण्यानुबन्धिपुण्यं संचयार्थं यत्नो विधेयः ।
वने रणे शत्रुजलाग्निमध्ये, महार्णवे पर्वतमस्तके वा । सुप्तं प्रमत्तं विषमस्थितं वा, रक्षन्ति पुण्यानि पुरा कृतानि ||२||
व्याख्या - वने, संग्रामे, शत्रुमध्ये, जलमध्ये, वह्निमध्येऽपारसमुद्रे, पर्वतशृङ्गे वा, सुतं, प्रमत्तं, विषमस्थितं वा जीवं पूर्वकृतः पुण्यसमूहो रक्षति। वन-विषये कलावती - दृष्टान्तो ज्ञेयः, संग्रामे-कोणिक-ज्ञातं प्रसिद्धं यस्य सहायकौ पुरन्दरौ बभूवतुः, शत्रुमध्ये तु पद्मरथेन रुद्धनगरो वज्रजङ्गो मोचितो लक्ष्मणेन, जले - मदिरा मत्तपतिं नद्यां चिक्षेप भार्या तथापि स रक्षितः पूर्वकर्मभिः, अपार - समुद्रे - श्रीपाल - वृत्तान्त आबालगोपालविदितः, पर्वत - मस्तके - मुनिना बोधित आत्मानं हन्तुं प्रारब्धो नन्दिषेणः ।
अथैवं शस्त्रास्त्राणि प्रहरन्तं विद्याधरेन्द्रमिन्द्रो ऽसिना भूधरमिव,
23