________________
श्री रत्नसारकुमार-चरित्रम् प्रकुपितः स्वयमेव दशमुखधारी विद्याधरस्वामी योद्धमुत्तस्थौ। पुरासौ कराणां विंशत्या युयुधे। ततो विद्याबलेन हस्तानां सहस्रं दधानो महाभीषणं शस्त्रास्त्रैरयुध्यत। रत्नसारोऽपि क्षुरप्रेण शरेण विद्याधरेन्द्रसत्कानि शस्त्राण्यस्त्राणि चाऽच्छेत्सीत्। तथैकेन बाणेन धनुश्चिच्छेद। एवमपरेण शरेण तस्य हृदयं विव्याध। ततो विद्धवक्षसस्तस्य भूयसी रुधिरधारा निरगच्छत्। ततो मूर्च्छितः स भूमौ पपात। अथ लब्धचेतनः सञ्जातसमरोत्साहः स विद्याबलेन लक्षरूपं धृतवान्। तदानीं तावद्भिस्तद्रूपैरखिलेयं मही व्यासाभूत्। सर्वत्र तद्रूपमेवापश्यत्स रत्नसारः, तथापि कुमारो मनागपि न बिभ्ये। यतः कल्पान्तेऽपि धीरपुरुषाः कातरतां नाङ्गीकुर्वते। यदाहभयस्य हेतौ समुपस्थिते हि, वीरोद्भटप्राणनिराकरिष्णो । न जातु चित्ते भयमेति नूनं, स एव धीरो भुवि वीरमान्यः ||१|
व्याख्या - वीराणामुद्भटाय = श्रेष्ठाय प्राणानाम् निराकरिष्णौ =नाशके भयस्य कारणे आगते, यदि किञ्चिदपि न मनसि भयमाप्नोति, तदा स एव धैर्यावलम्बी च वीरेषु समादरणीयश्च धरातले । यथा वर्धमानो बाल्ये देवेनोपसर्गेषु कृतेषु न मनागपि संक्षुब्धः । ततो देवैर्दत्तं नाम "महावीर" इति ।।
अथैवं कुमारं स विद्याधराधीशः कल्पितैरशेषैरप्यात्मरूपैर्हन्तुं लग्नस्तथापि कुमारो धीरतयैव युयुधान आसीत्कातरतां नापत्। परं संकटे पतितं कुमारमालोक्य चन्द्रचूडो देवः स्वयं मुद्गरं लात्वा तं विद्याधरेन्द्रं हन्तुमुत्तस्थौ। अतिभीमं मुद्गरेण निघ्नन्तं कल्पान्तकालोपमं तत्र समरे तिष्ठन्तं देवमुदीक्ष्य विद्याधरस्वामी तत्रास। तथापि धैर्यमाश्रित्य तेन देवेन सह चिरं शस्त्रास्त्रैरयुध्यत। परन्तु मूर्खाणां हृदये सदुपदेश इव वन्ध्यायाः पुत्रचिकित्सेव 1. समीपानि ।
22