________________
श्री रत्नसारकुमार-चरित्रम् नीचस्त्वादृशः कातरः पुमान् वदति भृशम्, प्रतिकारं न करोति। सज्जनस्तु स्वगौरवं नाख्याति, किन्तु क्रियामेव करोति। ___अतो निगदामि यदि शूरोऽसि, तर्हि शौर्य प्रकटय, किमीदृशाऽसदालापेन। किञ्च हस्ततालिकया अपरिचिताः पक्षिण एव पलायन्ते। गृहपारावतास्तु पटहाऽऽरवादपि मनागपि नैव बिभ्यति। मम शरणागतामिमां हंसी भोगीशफणातो मणिमिव किं कामयसे? एतज्जिघृक्षां त्यज, ममाग्रतो दूरं वज्र जीविताशां बिभर्षि चेत्, सत्वरमितः पलायनं विधेहि, नो चेत् तावकानि यान्येतानि दश मस्तकानि तान्यधुनैव दिग्पालेभ्यो बलिं ददिष्ये। अस्मिन्नवसरे रत्नसारसाहाय्याय देवरूपं विकृत्य मयूररूपं विहाय विविधास्त्रशस्त्रं दधच्चन्द्रचूडो देवस्तत्रागत्य इत्यवक्-भोः कुमार! भयं मा कृथाः यथेष्टमनेन सह युध्यस्व। अहं ते सहायतां दास्यामि, शस्त्रास्त्राणि नानाविधानि ददिष्ये, भवतः सर्वान् शत्रून् हनिष्यामि, किमधिकं निगदामि-यथा त्वं विजेष्यसे प्रबलानप्येतान् विपक्षपक्षांस्तथाहं विधास्यामि। इति देवोक्तमाकर्ण्य स कुमारः प्रवृद्धोत्साहस्तदैव योद्धं सज्जितोऽभूत्। अथ तां हंसीं तिलकमञ्जय समर्प्य रत्नसारस्तुरगमारुरोह। ततश्चन्द्रचूडार्पितं धनुरानम्य तदीयटकारनादेन सकलामपि विद्याधरचमूं भीषयामास। ततः प्रावर्त्तत विद्याधरगणेन सह तुमुलं युद्धम्। यथा मेघो वारिधारां वर्षति, तथा द्वयोः पक्षयोः परस्परं शराणां वृष्टिर्भवितुमलगत्। रत्नसारविजिगीषया विद्याधरा विद्याबलेनातिभीषणं योद्धं लग्नाः। एवं विद्याधरंविजेतुमिच्छया रत्नसारोऽपि देवबलेन वीरपुंसामपि विस्मयकरं युद्धं कर्तुमलगत्। प्रान्ते विद्याधरचमूः सकलापि कुमारभयेन छिन्नभिन्नाङ्गी ननाश। नष्टां निजां चमूमालोक्य चमत्कृतो भृशं 1. नागेश । 2. ग्रहीतुमिच्छा । 3. दद् १ ग. आ० । 4. वि+जि (आत्मने.)।
21