________________
श्री रत्नसारकुमार-चरित्रम वञ्चिता मुधैव भीतिमापुः। अधुनैव पश्यत पश्यत मदीयपौरुषम् इत्युदीर्य दशशिरांसि, कराणां विंशति, विकृत्यैकस्मिन् पाणी खड्गं, द्वितीये खेटकं, तृतीये गदां, चतुर्थे धनुरित्थं तत्तत्करेषु तानि तानि दिव्यानि शस्त्राणि बिभ्रदतिभीषणं प्रकुपितान्तकोपमं रूपं दधद् वीरचेतांसि भीषयन् सिंहनादं मुहुशोऽत्युच्चैः कुर्वन् स विद्याधरराजस्तत्रागतवान्। आगतं तमालोक्य त्रस्तः शुकः कुमारसन्निधावाययौ। यतो धीमान् पुमान् भयङ्करे स्थानके चिरं न तिष्ठति। अथ स विद्याधरनाथः उच्चैर्तुङ्कुर्वन्नुवाच-अरे रङ्क! झटिति दूरमपसर, नो चेदचिरादेव मरिष्यसि। मामकीमिमां प्राणकल्पां हंसीं निजोत्सङ्गे धृत्वा किमिति सुखेनोपविष्टोऽसि? अरे निर्लज्ज! निर्भीक! त्वं चोरवन्मदमूल्यमेतदपहृत्य मम स्वमुखं किं दर्शयसि। एतत्कालं मयि पुरस्तिष्ठति सति कथं न पलायसे? त्वमधुना कालग्रस्त इव मत्तो मृत्यु कथं कामयसे?, अत्रावसरे कीरमयूरतिलकमञ्जरीहंस्यः, कृतान्तमिव पुरःस्थितं तं पश्यन्त्यः क्वचिदेकत्र प्रदेशेऽतिविस्मितास्त्रस्ता अतिष्ठन्।
अथ रत्नसार आह-रे मूढ! विद्याधराधम! केवलं धान्यपलालमिवासारः प्रतिभासि। यदेवं प्रलपसि, त्वदीयवाङ्मात्रेण शिशव एव त्रस्यन्ति, न जातु शौर्यवन्तः। यदि शौर्य धत्से, तर्हि पराक्रमेण हंसीं गृहाण। त्वमिव यो हि गृहशूरो भवति, स एवं प्रलपति। क्रियां तु नैव कुरुते, अशक्तत्वात् तदुक्तम् - गर्जति शरदि न वर्षति, वर्षासु निस्वनो मेघः । नीचो वदति न कुरुते, न वदति कुरुते च सज्जनो लोकः ||१||
व्याख्या - यथा मेघः शरत्काले गर्जत्येव, न कदाचिदपि वर्षति। वर्षासु-वर्षाकाले तु गर्जति न, किन्तु वर्षत्येव। तथा 1. यमः । 2. प्राणसमानां ।
__20