________________
श्री रत्नसारकुमार - चरित्रम्
मे कथय ।
अथैवं स्नेहपरं कुमारोक्तं श्रुत्वा सा हंसी यावदात्मवृत्तं वक्तुमैहिष्ट, तावदुच्चैर्गर्जन्ती महती विद्याधरसेना व्योम्नस्तत्रावातरत्। तामवलोक्य मनसि जातशङ्कः कीरो मन्दिराद्बहिरागत्य द्वारोपरि समुपाविशत् । तदा तीर्थमहिम्नः कुमारस्य सौभाग्यतया वा विकृतातिभीषणतनुः पर्वताकारः कीरः क्रुधा भ्रुवौ वक्रीकृत्य तां चमूमित्थमाह- अरे रे विद्याधराः ! कस्यानुपदं धावत ? कुत्रेदानीं व्रजथ?, अग्रे देवासुरानपि तृणाय मन्यमानो रत्नसारस्त्रिभुवनमहाभटजिष्णुस्तिष्ठति । तं किमिति नो वेत्थ तस्मिन् क्रुद्धे सति यूयं नूनमेव कान्दिशीका भविष्यथ । अतोऽहं हितं वच्मि, यदि जीवितुमिच्छथ, तर्हि शीघ्रमेवेतः पलायध्वम् । ईदृशं भीषणं शुकभाषितं श्रुत्वा संत्रस्ता सा चमूर्विस्मिता सत्येवमचिन्तयत्अहो! नूनमेष कीररूपधारी कोऽपि देवो दानवो वा विद्यते । अन्यथा कथमेवं नस्तिरस्कुर्यात् । अहो विद्याधराणां नः सिंहनादो जगज्जिष्णुर्भूत्वापि कीरस्यास्य हुङ्कारनादेनापि त्रस्यति, महदाश्चर्यमेतत्। धिग् धिगीदृशान् कातरान् नः यस्य महावीरस्य [ रत्नसारस्य ] कीर एव विद्याधरान् क्षोभयति।
स कुमारः कीदृशः कियांश्च बलवान् भविष्यतीति को वेत्ति । बलमविज्ञाय कोऽपि केनापि युद्धाय नैव सज्जते । इति निश्चितवन्तस्ते भटाः पश्चाद्वलित्वा स्वस्वामिनोऽग्रे यथाजातमशेषं वृत्तमूचुः । तदाकर्ण्य स विद्याधरेशो मेघ इव गर्जन् हस्तौ पृथ्व्यां पातयन् भ्रकुटिमाकृषन् केसरीव महता निनादेन तानवोचत् - अरे कातराः ! रङ्का इव कथं कीरवचसा कान्दिशीका भवन्तः परावर्त्तन्त । धिगस्तु भवतो गेहेशूरान्। अरे! कोऽस्ति कुमारः को वा तदीयः शुकः । ममाग्रे कोऽपि नैव प्रभवितुमर्हति । भवन्तः केवलं कीरवचनेन 1. अलुप् समासः ।
19