________________
श्री रत्नसारकुमार - चरित्रम् प्यदर्शि, किन्तु शबरसेनाख्ये महावने कश्चिदेकस्तापसकुमारो दृष्टः । तस्यासीमरूपलावण्यतारुण्यं भवत्याः समानमेवासीत् । अत्रान्तरे कीरोऽवदत्- हे सुन्दरि ! नूनं तवाद्य - भगिनी मिलिष्यति । सा प्रत्यूचेशुकराज ! यदि सत्यं भविष्यति त्वदुक्तम्, अहं भगिनीं विलोकिष्ये तर्हि त्वामर्चिष्यामि । इत्थं यावद्रत्नसारकीरतिलकमञ्जर्य आलपन्ति, तावदकस्मादेका हंसी गगनादागत्य कुमाराङ्के पपात । सा भयभीतिमावेदयन्ती भृशं कम्पमाना मुहुः कुमारमुखमवलोकमाना मनुष्यभाषया न्यगदत् । यथा - हे सत्पुरुष ! शरणागतपरिपालक! मामनाथामशरणमतीवदीनां शरणागतां पाहि पाहि । लोके धीरपुरुषाः शरणमागतं कृतापराधमपि कारुण्येनावन्त्येव कदापि नोपेक्षन्ते। यदाह
दिवाकराद्रक्षति यो गुहासु, लीनं दिवाभीतमिवान्धकारम् । क्षुद्रेऽपि नूनं शरणं प्रपद्मे ममत्वमुच्चैः शिरसां सदैव ||१||
व्याख्या यो हिमाचलः गुहासु-कन्दरासु लीनं-संस्थितं दिवाभीतं - दिवाकराद् भीतिमापन्नमन्धकारं रक्षति - परित्रायते । यतः शरणं प्रपन्ने-शरणार्थिनि क्षुद्रेऽपि - अयोग्येऽपि जने उच्चैःशिरसांमहात्मनां सदैव ममत्वं जायते ।
इति हंस्या भाषितमाकर्ण्य करुणाकरो रत्नसारस्तदङ्गानि मृदुकरेण स्पृशन्नवक्- हे हंसि! मा भैषीः, इह ही वीतरागजिनेन्द्रप्रभोः सन्निधौ मनागपि कुतोऽपि कस्यापि भीतिर्नोत्पद्यते । अवश्य- मेतद्विद्धि । यन्मम क्रोडे स्थितां त्वां नरेन्द्रो विद्याधरेन्द्रो देवेन्द्रो वा पराभवितुं नार्हति । ततस्तटाकतो ऽतिमिष्टं पयः समानीय कुमारस्तामपाययत् । पुनस्तामपृच्छत् - हंसि! त्वं कासि ? कुतस्ते भयमस्ति ? कुत आयासि ? मनुष्यवाचं कथङ्कारं निगदसि? सर्वं
1. अत्रानर्थकः कृ धातुः, कथङ्कारं = कथम्, ५ - ४ - ५० सिद्धम० ।
18